Enter your Email Address to subscribe to our newsletters

नवदिल्ली, २५ फरवरीमासः (हि.स.)। केन्द्रसर्वकारः २६ फरवरीमासे पुडुचेरी–केन्द्रशासितप्रदेशे प्रधानमन्त्री–गरीब–कल्याण–अन्न–योजनायाः (पीएमजीकेएवाई) अन्तर्गतं केन्द्रीय–बैंक–डिजिटल–मुद्रा (सीबीडीसी)–आधारितं खाद्य–अनुदान–वितरणस्य पायलट–परियोजनां प्रक्षेपयिष्यति।
केन्द्रीय–खाद्य–सार्वजनिक–वितरणमन्त्री प्रल्हादजोशी अस्याः पायलट–परियोजनायाः उद्घाटनं के.कैलाशनाथन्, मुख्यमंत्री एन.रंगास्वामी तथा अन्येषां गणमान्यानां उपस्थितौ करिष्यति। एषा परियोजना पुडुचेरी–सर्वकारेण, रिज़र्व-बैंक-ऑफ-इंडिया, सार्वजनिक–वित्तीय–प्रबन्धन–प्रणाली (पीएफएमएस) तथा नामित–धनागार–सहयोगिभिः सह केनरा-धनागार–इत्यस्य समन्वयेन कार्यान्विता भविष्यति।
अस्याः पायलट–परियोजनायाः अन्तर्गतं खाद्य–अनुदानाय चिन्हितानां लाभार्थिनां सीबीडीसी–वॉलेट-इत्येतेषु कार्यक्रम–योग्य–केन्द्रीय–धनागार–डिजिटल–मुद्रा–टोकन–रूपेण अनुदान–राशिः प्रत्यक्षतया निक्षेप्यते। एतेषां टोकन-इत्येतेषाम् उपयोगः केवलं अधिकृत–व्यापारिभ्यः तथा उचित–मूल्य–विक्रय–केन्द्रेभ्यः (एफपीएस) खाद्यान्न–क्रयाय एव कर्तुं शक्यते, येन अनुदानस्य उद्देश्यपूर्ण–उपयोगः सुनिश्चितो भविष्यति तथा पारदर्शिता च वर्धिष्यते।
मन्त्रालयानुसारं सीबीडीसी–आधारित–डिजिटल–फूड–करन्सी–प्रयत्न: देशस्य खाद्य–सुरक्षा–तन्त्रे डिजिटल–परिवर्तनस्य अग्रिमः चरणः अस्ति। अस्याः योजनायाः उद्देश्यं अनुदान–वितरणे पारदर्शिताया:, कार्यक्षमतायाः, उत्तरदायित्वस्य तथा लाभार्थिनां सशक्तिकरणस्य प्रवर्धनम् अस्ति। पुडुचेरी–प्रदेशे अस्याः परियोजनायाः कार्यान्वयनानन्तरं सीबीडीसी–आधारित–एषा पायलट–परियोजना चरणबद्ध–रीत्या विस्तरिता भविष्यति, येन अधिकाः लाभार्थिनः तथा अन्ये केन्द्रशासितप्रदेशाः अपि अस्यां समावेशयितुं शक्या:।
हिन्दुस्थान समाचार / अंशु गुप्ता