भारत–तिब्बत-सीमा-आरक्ष-बलेन पूर्व–सैनिक–दिवसः आचरितः — सीमाया: सपूतेभ्यः नमनं वीराणां च सम्मानम्
भारत–तिब्बत-सीमा-आरक्ष-बलस्य क्षेत्रीय–मुख्यालये बरेली–नगरे पूर्व–सैनिक–दिवसे सेवानिवृत्ताः सैनिका: सम्मानिताः कृताः। अधिकारिणः तेषां योगदानं संघटनस्य आधारशिलाम् इति वर्णयित्वा, सर्वदा सहैव स्थातुं प्रतिबद्धतां प्रकटितवन्तः
बरेली में भारत तिब्बत सीमा पुलिस बल द्वारा आयोजित पूर्व सैनिक दिवस समारोह में सेवानिवृत्त जवानों को सम्मानित करते अधिकारी।


बरेली में भारत तिब्बत सीमा पुलिस बल द्वारा आयोजित पूर्व सैनिक दिवस समारोह में सेवानिवृत्त जवानों को सम्मानित करते अधिकारी।


बरेलीनगरम्, २५ फरवरीमासः (हि.स.)। पोषाक–त्यागानन्तरमपि राष्ट्रसेवायाः तेजः न क्षीयते इति भावः बुधवासरे स्पष्टतया दृष्टः। भारत–तिब्बत-सीमा-आरक्ष-बलस्य क्षेत्रीय–मुख्यालये बरेली–नगरे तथा तृतीय–वाहिन्या सह पूर्व–सैनिक–दिवसस्य आयोजनं कृत्वा सेवानिवृत्तान् सैनिकान् सम्मानिताः कृताः। समारोहे गर्व–सम्मान–भावनानां अद्भुतः संगमः दृश्यते स्म।

कार्यक्रमः डीआईजी अवनीश–मार्गदर्शने सम्पन्नः, अध्यक्षतां च तृतीय–वाहिन्याः सेनानी पवनसिंह: अकरोत्। अधिकारिणः अवदन् यत् पूर्व–सैनिकाः केवलं सेवानिवृत्ताः कार्मिकाः न सन्ति, अपि तु संघटनस्य सुदृढा आधारशिला एव। येषां स्कन्धेषु वर्षाणि यावत् देशस्य सीमासुरक्षायाः दायित्वं आसीत्, तेषां सम्माननं बलस्य कर्तव्यं इति ते अवदन्।अस्मिन् अवसरे पूर्व–सैनिकैः सह संवाद–सत्रमपि आयोजितम्। अनेके पूर्व–सैनिका: हिमाच्छादितेषु मोर्चासु तथा संवेदनशील–प्रदेशेषु सेवायाः अनुभवान् अवदन्। तेषां संघर्ष–कथाः श्रुत्वा सभागारः करतल–ध्वनिभिः निनादितः। अधिकारिणः उक्तवन्तः यत् एतेषां अनुभवाः नववंशस्य प्रेरणास्रोतांसि सन्ति।

समारोहस्य अन्ते सर्वेभ्यः पूर्व–सैनिकेभ्यः स्मृतिचिह्नानि प्रदत्तानि। बलम् अपि आश्वासनं दत्तवान् यत् पूर्व–सैनिकानां तेषां परिवाराणां च कल्याणाय संघटनं सदैव सहैव स्थास्यति।

हिन्दुस्थान समाचार / अंशु गुप्ता