झांसी : मढिया मंदिर स्थितस्य घट्टस्य 4.65 कोटिरुप्यकाणां व्ययेन जातः कायाकल्पः
घट्टनिर्माणं, दीपाः, शेड, पेयजलं अन्यत्सुविधा इत्येषां क्रियते व्यवस्था,शीघ्रं कार्यं पूर्णम् झांसी, 25 फ़रवरीमासः (हि.स.)। योगीसर्वकारेण ऐतिहासिकधार्मिकमहत्त्वयुक्ते उत्तरप्रदेशराज्ये झांसीजिल्लायाम् एरच नगरे बेतवानदीतटे स्थितस्य मढियाघाटस्य सुन
घाट का छायाचित्र


घट्टनिर्माणं, दीपाः, शेड, पेयजलं अन्यत्सुविधा इत्येषां क्रियते व्यवस्था,शीघ्रं कार्यं पूर्णम्

झांसी, 25 फ़रवरीमासः (हि.स.)।

योगीसर्वकारेण ऐतिहासिकधार्मिकमहत्त्वयुक्ते उत्तरप्रदेशराज्ये झांसीजिल्लायाम् एरच नगरे बेतवानदीतटे स्थितस्य मढियाघाटस्य सुन्दरीकरणकार्यं क्रियते। अस्मिन् स्थले पर्यटनसुविधानां विकासः कृतः भवति तथा च अस्य स्थळस्य भव्यरूपेण निर्माणं विधीयते। अत्र मढियामन्दिरमपि स्थितम् अस्ति, यत्र बहुसंख्यकाः श्रद्धालवः दर्शनार्थम् आगच्छन्ति।

मढियाघाटे पर्यटनसुविधानां विकासाय ४.६५ कोटिरूप्यकाणां व्ययः क्रियते। अत्र प्रायः ६२ मीटरदीर्घः भव्यः सुन्दरः पक्काघाटः निर्मितः अस्ति। अत्र गजेवाः, शिलासनपीठिकाः, एलईडीदीपाः, उद्यानव्यवस्था च अन्याः सुविधाः विकसिताः सन्ति।

अत्र आगच्छन्तः श्रद्धालवः पर्यटकाः च घाटे उपविश्य बेतवानद्याः भव्यतां सौन्दर्यं च अवलोकयितुं शक्नुवन्ति। अस्य स्थळस्य ऐतिहासिकधार्मिकमहत्त्वं दृष्ट्वा विकासकार्याणि समाप्यन्ते। पर्यटनविभागस्य प्रयत्नः अस्ति यत् अस्य स्थलस्य महत्त्वेन जनाः परिचिताः स्युः तथा च अस्य संरक्षणमपि सुनिश्चितं भवेत्।

झांसीक्षेत्रीयपर्यटनाधिकारी डी के शर्मा बुधवासरे उक्तवान् यत् एरच नगरे बेतवानदीतटे स्थितस्य मढियाघाटस्य सुन्दरीकरणकार्यं क्रियते। अत्र घाटनिर्माणेन सह श्रद्धालूनां पर्यटकानां च सुविधाविकासः अपि क्रियते। विकासकार्यं अन्तिमचरणे अस्ति तथा च शीघ्रमेव सम्पूर्णं भविष्यति।

---------

हिन्दुस्थान समाचार