आजीविका मिशन इत्यस्य भविन्यः प्रदेशस्य अर्थव्यवस्थां कुर्वते सशक्ताम् : मुख्यमंत्री डॉ. यादवः
- मुख्यमंत्री आजीविका मिशन क्षमतावर्धन कार्यशालायाः अकरोच्छुभारंभम्, विशिष्टहोलिकायाः कंडोलः विमोचितः। भोपालम्, 25 फरवरीमासः (हि.स.)। मध्यप्रदेश राज्यस्य मुख्यमन्त्री डॉ मोहन यादवः उक्तवान् यत् आजीविकामिशनेन सम्बद्धाः दीद्यः एकतायाः शक्तेः सजीव
मुख्यमंत्री ने आजीविका मिशन क्षमतावर्धन कार्यशाला का किया शुभारंभ


मुख्यमंत्री ने आजीविका मिशन क्षमतावर्धन कार्यशाला का किया अवलोकन


मुख्यमंत्री डॉ. यादव ने आजीविका ग्रामीण एक्सप्रेस योजना के 7 वाहनों को झंडी दिखाकर रवाना किया


स्पेशल होली हैम्पर को लाँच किया गया


- मुख्यमंत्री आजीविका मिशन क्षमतावर्धन कार्यशालायाः अकरोच्छुभारंभम्, विशिष्टहोलिकायाः कंडोलः विमोचितः।

भोपालम्, 25 फरवरीमासः (हि.स.)।

मध्यप्रदेश राज्यस्य मुख्यमन्त्री डॉ मोहन यादवः उक्तवान् यत् आजीविकामिशनेन सम्बद्धाः दीद्यः एकतायाः शक्तेः सजीवदृष्टान्ताः सन्ति। तासां सामूहिकप्रयत्नाः बन्दमुष्टिः लक्षमूल्या इति भावं चरितार्थयन्तः देशस्य प्रदेशस्य च अर्थव्यवस्थां सुदृढीकुर्वन्ति।

मुख्यमन्त्री डॉ यादव भोपाल नगरे कुशाभाऊ ठाकरे सभागारे स्वसहायतासमूहानां आजीविकामिशन क्षमतावर्धनकार्यशालायां सम्बोधनं कृतवान्। तेन उक्तं यत् अद्य भगिन्यः ट्रैक्टरं ड्रोनयानं च चलयन्ति, गैस पेट्रोल पुनर्भरणकार्येषु अपि प्रवृत्ताः सन्ति। कैफे संचालनात् आरभ्य विपणिलक्ष्यपूर्तिपर्यन्तं ताः अग्रणीभूताः सन्ति। अचार पापडनिर्माणादिभिः लघुउद्योगैः उत्तमां आयं प्राप्नुवन्ति।

तेन उक्तं यत् भारतीयसंस्कृतौ मातृसत्तायाः विशेषमहत्त्वम् अस्ति। राज्यसरकारस्य प्रयासैः प्रदेशस्य भगिन्यः सशक्ताः अभवन्। प्रदेशे पञ्चलक्षाधिकेषु स्वसहायतासमूहेषु पञ्चषष्टिलक्षाधिकाः दीद्यः सम्बद्धाः सन्ति। तासु द्वादशलक्षाधिकाः लखपतिदीदी पदवीं प्राप्तवन्त्यः। राज्यसरकारः तासां सशक्तीकरणाय संकल्पितः अस्ति।

मुख्यमन्त्री अवदत् यत् स्वसहायतासमूहैः एकस्मिन् वर्षे विभिन्नकम्पनीमाध्यमैः मेलनैः च त्रिशतदशकोटिरूप्यकाणां व्यापारः कृतः। मध्यप्रदेशः देशे सर्वाधिकप्राकृतिककृषिकर्ता राज्यः अस्ति। समूहानां पञ्चाशत्सहस्रभगिन्यः प्राकृतिककृषौ संलग्नाः सन्ति। वर्षे २०२६ २७ वित्तीययोजनायां महिला बालविकासविभागस्य विनियोगे षड्विंशतिशतवृद्धिः कृता। समग्रबजटस्य चतुस्त्रिंशतिशतांशः ग्रामीणविकासे विनियोज्यते।

कार्यक्रमे पंचायतग्रामीणविकासमन्त्री प्रहलादसिंह पटेल कौशलविकासमन्त्री गौतम टेटवाल तथा राज्यामन्त्री राधासिंह उपस्थिताः आसन्। मुख्यमन्त्री विभिन्नजिलाभ्यः आगतानां समूहानां उत्पादप्रदर्शनस्थानानि निरीक्ष्य ताभिः संवादं कृतवान् तथा मिलेट्सकैफे इत्यत्र व्यञ्जनानि आस्वादितवान्।

मुख्यमन्त्री आजीविकाग्रामीणएक्सप्रेसयोजनायाः सप्त वाहनानि प्रेषितवान्। विशेषहोलीकंडोले प्राकृतिकवर्णाः देशीघृतं मिष्टान्नं गोकाष्ठं पूजनसामग्री टीशर्टादयः दश उत्पादाः सन्ति। विभिन्नजिलानां दीद्यः निर्मितहोलीहैम्परविषये लघुचित्रपटः प्रदर्शितः। समुदायप्रबन्धितप्रशिक्षणकेन्द्रस्य उद्घाटनम् अपि कृतम्।

मुख्यमन्त्री उक्तवान् यत् ग्रामीणअर्थव्यवस्थायाः महिला उद्यमितायाः च इतिहासे अयं स्वर्णिमदिनः अस्ति। आजीविकामिशनस्य प्रयासैः भगिनीनां निर्मितसामग्री वैश्विकविपणिना सह संयोज्यते। कार्यशाला तासां कौशलकर्मठतायाः नूतनदिशं प्रदास्यति। राज्यसर्वकारः प्रशिक्षणेन सह उन्नतेः अवसरान् प्रददाति। भगिन्यः स्वसमूहशक्तिं वर्धयित्वा नूतनशिखराणि प्राप्नुयुः। सर्वकारः सदा ताभिः सह अस्ति।

---------------

हिन्दुस्थान समाचार