नानाजी देशमुखः स्वसम्पूर्णं जीवनं ग्रामस्य विकासाय, शिक्षायै स्वावलंबनाय च अकरोत् समर्पितम् : मुख्यमंत्री डॉ. यादवः
- मुख्यमंत्री चित्रकूटस्य पं. दीनदयाल उपाध्याय शोध संस्थानस्य कार्यक्रममकरोत् वर्चुअलीरूपेण संबोधितम् भोपालम्, 25 फरवरीमासः (हि.स.)। मध्य प्रदेश राज्यस्य मुख्यमन्त्री डॉ. मोहन यादव अवदत् यत् राष्ट्रऋषिः नानाजी देशमुख केवलं राजनेता न आसन्, अपित
मुख्यमंत्री ने चित्रकूट के पं. दीनदयाल उपाध्याय शोध संस्थान के कार्यक्रम को किया वर्चुअली संबोधित


- मुख्यमंत्री चित्रकूटस्य पं. दीनदयाल उपाध्याय शोध संस्थानस्य कार्यक्रममकरोत् वर्चुअलीरूपेण संबोधितम्

भोपालम्, 25 फरवरीमासः (हि.स.)।

मध्य प्रदेश राज्यस्य मुख्यमन्त्री डॉ. मोहन यादव अवदत् यत् राष्ट्रऋषिः नानाजी देशमुख केवलं राजनेता न आसन्, अपितु सामाजिकपरिवर्तनस्य महान् साधकः आसन्। तेन स्वजीवनं समग्रतया ग्रामविकास शिक्षा स्वावलम्बनाय समर्पितम् तथा समाजसेवायाः उद्देश्यं तपसा सिद्धीकृतम्। स्वर्गीयनानाजीदेशमुखस्य मतम् आसीत् यत् भारतस्य आत्मा ग्रामेषु वसति। यदा ग्रामाः सुदृढाः भविष्यन्ति तदा एव राष्ट्रं सुदृढं भविष्यति।

मुख्यमन्त्री डॉ यादव बुधवासरे राष्ट्रऋषेः नानाजीदेशमुखस्य षोडशम्याः पुण्यतिथेः सन्दर्भे चित्रकूट स्थिते पंडित दीनदयाल उपाध्याय शोध संस्थान आयोजिते त्रिदिवसीये कार्यक्रमे भोपाल विधानसभातः आभासीमाध्यमेन सम्बोधनं कुर्वन् आसन्। स्वर्गीयनानाजीदेशमुखस्य षोडशमी पुण्यतिथिः २७ फरवरी दिवसे भवति।

मुख्यमन्त्री उक्तवान् यत् चित्रकूटं भगवान श्री राम इत्यस्य तपोस्थलीरूपेण प्रसिद्धम् अस्ति, तथैव नानाजीदेशमुखस्य कर्मस्थलीरूपेण अपि गौरवं धारयति। स्वर्गीयनानाजीदेशमुखेन पं. दीनदयाल उपाध्याय प्रतिपादितस्य एकात्ममानववादस्य स्वप्नं मूर्तिरूपेण साकारयितुं चित्रकूटात् एव संकल्पः कृतः। अस्य उद्देशस्य सिद्ध्यर्थं १९९१ तमे वर्षे चित्रकूट ग्रामोदय विश्वविद्यालय इति नाम्ना ग्रामीणविश्वविद्यालयस्य स्थापना कृता।

नरेन्द्र मोदी इत्यस्य नेतृत्वे राज्यसरकारः स्वर्गीयनानाजीदेशमुखस्य शिक्षानुसारं समाजदेशयोः संवर्धनसशक्तीकरणयोः दिशि कार्यं करोतिः।

दीनदयालशोधसंस्थानं ग्रामीणविकासेन सह स्वास्थ्य स्वच्छता शिक्षा कृषि स्वावलम्बन प्राकृतिकसंसाधनसंरक्षणेषु अनुकरणीयं कार्यं करोति। राज्यसरकारः विरासतया सह विकासं मनसि निधाय ग्रामान् सुदृढीकृत्य राष्ट्रनिर्माणे स्वयोगदानं ददाति। चित्रकूटे स्थानीयसांसदः गणेश सिंह, विश्वविद्यालयस्य कुलगुरुः आलोक दुबे, दीनदयालशोधसंस्थानस्य संगठनसचिवः अभय महाजन तथा विषयविशेषज्ञाः शोधार्थिनः च उपस्थिताः आसन्।

---------------

हिन्दुस्थान समाचार