मध्यप्रदेशः - नगरीय निकायेषु अवशिष्टकरग्रहणाय अद्य आयोज्यते विशेषेण शिविरम्
भोपालम्, 25 फरवरीमासः (हि.स.)।मध्यप्रदेशराज्ये नगरीयप्रशासनविकाससंचालनालयेन सर्वेषु नगरीयनिकायेषु करादिराजस्वसंग्रहार्थं अद्य बुधवासरे विशेषशिविरस्य आयोजनं क्रियते। अस्मिन् विशेषशिविरे नागरिकानां कृते ऑनलाइनमाध्यमेन भुगतानसुविधा प्रदत्ता अस्ति। न
जागरूकता शिविर


भोपालम्, 25 फरवरीमासः (हि.स.)।मध्यप्रदेशराज्ये नगरीयप्रशासनविकाससंचालनालयेन सर्वेषु नगरीयनिकायेषु करादिराजस्वसंग्रहार्थं अद्य बुधवासरे विशेषशिविरस्य आयोजनं क्रियते।

अस्मिन् विशेषशिविरे नागरिकानां कृते ऑनलाइनमाध्यमेन भुगतानसुविधा प्रदत्ता अस्ति।

नगरीयविकासआवासआयुक्तेन संकेतभोंडवे महोदयेन निर्देशाः दत्ताः यत् सर्वे नगरीयनिकायाः राजस्वसंग्रहस्य लक्ष्यम् शीघ्रं निर्धारितसमये च प्राप्तुं प्रयत्नं कुर्वन्तु। तेन उक्तं यत् बकायाकरशुल्कयोः संग्रहे काचित् अपि शिथिलता न स्वीकरिष्यते तथा सर्वे निकायाः चरणबद्धरूपेण निर्धारितप्रतिशतानुसारं संग्रहम् सुनिश्चितं कुर्वन्तु।

आयुक्तेन भोंडवे महोदयेन उक्तं यत् संग्रहम् डिजिटलमाध्यमेन क्रियेत तथा प्रगतेः सूचना नियमितरूपेण पटले अध्यतनं क्रियेत।

सर्वेभ्यः नगरीयनिकायेभ्यः प्रभावीकार्ययोजना निर्माय विशेषाभियानं संचालयित्वा समये लक्ष्यार्थप्राप्तये आवश्यकप्रशासनिकपदानि स्वीकर्तुं निर्देशाः दत्ताः।

---------------

हिन्दुस्थान समाचार