Enter your Email Address to subscribe to our newsletters

पुणे, 25 फरवरीमासः (हि.स.)।
शरदपंवारस्य राष्ट्रवादी कांग्रेस पक्षस्य नेता तथा पूर्वकेन्द्रीयमन्त्री शरदपवारस्य स्वास्थ्ये सुधारः जातः। तदनन्तरं अद्य तस्मै चिकित्सालयात् अवकाशः दत्तः सः मुम्बईनगरं प्रति प्रस्थितः।
गत नवमफरवरीदिने उरःसंक्रमणस्य कारणेन शरदपवारः पुणेनगरे रूबीहोलक्लिनिकनाम्नि चिकित्सालये प्रविष्टः आसीत्। चिकित्सालयात् अवकाशप्रदाने सति वैद्यैः तस्मै विश्रान्तिं कर्तुं परामर्शः दत्तः।
रुबी चिकित्सालयस्य मुख्यहृदयरोगविशेषज्ञः अध्यक्षः प्रबन्धनन्यासधिपतिश्च डॉ पुरवेज् ग्राण्ट् बुधवासरे अवदत् यत् शरदपवारः कुशलम् अस्ति। तस्मै अवकाशः प्रदत्तः सः मुम्बईनगरं प्रति निर्गतः। आगामिदिनेषु विश्रान्तिः करणीयेति परामर्शः दत्तः, अनन्तरं सः स्वस्य सामान्यदिनचर्यां पुनः आरभितुं शक्नोति इति।
शरदपवारस्य दुहिता सांसद् Supriya Sule चिकित्सालयात् स्वपितरं नेतुं आगता आसीत्। सुप्रियासुले पूर्वमेव रुबी चिकित्सालयस्य वैद्यानां प्रति कृतज्ञतां व्यक्तवती। सा उक्तवती यत् तस्याः पितुः स्वास्थ्यं सम्यक् अस्ति, सः मुम्बईनगरि विश्रान्तिं करिष्यति। सुप्रियासुले अपि अवदत् यत् शरदपवारस्य नियमितपरीक्षणं मुम्बईस्थिते ब्रांचकेंडी चिकित्सालये करिष्यते।
---------------
हिन्दुस्थान समाचार