प्रधानमन्त्री नरेन्द्रमोदी अद्य इजरायल–राज्यं प्रति राजकीय–यात्रायै प्रस्थानं करिष्यति
नवदिल्ली, २५ फरवरीमासः (हि.स.)। प्रधानमन्त्री नरेन्द्रमोदी अद्य आरभ्य इजरायल–देशस्य द्विदिवसीय–प्रवासं करिष्यति। गतनववर्षेषु एषा तस्य द्वितीया इजरायल्श–यात्रा भविष्यति। पश्चिम–एशिया–प्रदेशे वर्धमानस्य चिन्ताया: विशेषतः अमेरिका–ईरानदेशयोः मध्ये अवनत
भाजपा ने अपने एक्स हैंडल पर प्रधानमंत्री नरेन्द्र मोदी की इजराइल यात्रा की जानकारी साझा की है।


नवदिल्ली, २५ फरवरीमासः (हि.स.)। प्रधानमन्त्री नरेन्द्रमोदी अद्य आरभ्य इजरायल–देशस्य द्विदिवसीय–प्रवासं करिष्यति। गतनववर्षेषु एषा तस्य द्वितीया इजरायल्श–यात्रा भविष्यति। पश्चिम–एशिया–प्रदेशे वर्धमानस्य चिन्ताया: विशेषतः अमेरिका–ईरानदेशयोः मध्ये अवनतमान–सम्बन्धानां सन्दर्भे, सम्पन्ना एषा यात्रा भारत–इजरायल–रणनैतिक–सहभागितां अधिकं सुदृढीकरणाय महत्त्वपूर्णं पदं मन्यते। अस्यां यात्रायां प्रधानमन्त्री मोदी इजरायल–संसदं अपि सम्बोधयिष्यति।

आधिकारिक–प्रवक्तुः कथनानुसारं, इजरायल–प्रधानमन्त्री बेंजामिन नेतन्याहू–इत्यस्य आमन्त्रणेन प्रधानमन्त्री नरेन्द्रमोदी २५–२६ फरवरीमासयोः मध्ये इजरायल–देशस्य राजकीय–यात्रायां भविष्यति। एषा प्रधानमन्त्रिण: इजरायल–देशं प्रति द्वितीया यात्रा अस्ति। यात्राकाले प्रधानमन्त्री मोदी नेतन्याहू–इत्यनेन सह साक्षात्कारं करिष्यति।

उभौ नेतारौ भारत–इजरायल–रणनैतिक–सहभागिताया: मध्ये जातां महत्त्वपूर्णां प्रगतिं समीक्षिष्यतः तथा विज्ञान–प्रौद्योगिकी, नवाचार:, रक्षा–सुरक्षा, कृषि:, जल–प्रबन्धनम्, व्यापार–अर्थव्यवस्था, जन–समुदायानां आदान–प्रदानं च इत्यादिषु विविधेषु क्षेत्रेषु सहकार्य–अवसराणां विषये विचार–विमर्शं करिष्यतः। क्षेत्रीयेषु वैश्विकेषु च पारस्परिक–हित–सम्बद्धेषु विषयेषु अपि उभयोः नेत्रो: मध्ये मत–विनिमयः भविष्यतीति अपेक्षा अस्ति। प्रधानमन्त्री इजरायल–राष्ट्रपतिं इसहाक-हर्जोग–महाशयं अपि साक्षात्करिष्यति।

भारतीय–जनता–पक्षेण (भा.ज.पा.) एक्स–माध्यमे लिखितं यत्—“नेसेट्–संसदं सम्बोधितुं प्रथमः भारतीय–प्रधानमन्त्री इति रूपेण मोदिन: एषः प्रवास: कूटनीत्याः गरिमायाश्च सुन्दरः समन्वयः अस्ति। इतिहासे, मूल्येषु च अग्रदृष्ट्या आधारितायां रणनीतिक–सहभागितायां एषः प्रवास: निहितः अस्ति।”

उल्लेखनीयं यत्, अस्यां यात्रायां आयरन–डोम–वायु–रक्षा–प्रणाली, प्रायः ७१ सहस्र–कोटि–रूप्यकाणां सम्भाव्याः रक्षा–सन्धि:, तथा एआइ–आधारित–ड्रोन–प्रौद्योगिकी विषये महत्त्वपूर्णः विचार–विमर्शः भविष्यतीति अपेक्ष्यते।

हिन्दुस्थान समाचार / अंशु गुप्ता