प्रधानमन्त्री नरेन्द्रमोदी अनुशासनस्य महत्त्वे बलं दत्तवान्
नवदिल्ली, २५ फरवरीमासः (हि.स.)। प्रधानमन्त्री नरेन्द्रमोदी बुधवासरे एकं संस्कृत–सुभाषितं सहभागं कृत्वा ज्ञानस्य मूलभूत–मूलानां तथा नित्य–अनुशासनस्य संरक्षणे निर्णायक–महत्त्वं विशेषतया प्रतिपादितवान्। प्रधानमन्त्रिणा एक्स-मञ्चे एतत् सुभाषितं प्रकाशि
प्रधानमंत्री नरेन्द्र मोदी


नवदिल्ली, २५ फरवरीमासः (हि.स.)। प्रधानमन्त्री नरेन्द्रमोदी बुधवासरे एकं संस्कृत–सुभाषितं सहभागं कृत्वा ज्ञानस्य मूलभूत–मूलानां तथा नित्य–अनुशासनस्य संरक्षणे निर्णायक–महत्त्वं विशेषतया प्रतिपादितवान्। प्रधानमन्त्रिणा एक्स-मञ्चे एतत् सुभाषितं प्रकाशितम्—

विप्रो वृक्षस्तस्य मूलं च सन्ध्यावेदाः शाखा धर्मकर्माणि पत्रम्।तस्मान्मूलं यत्नतो रक्षणीयंछिन्ने मूले नैव शाखा न पत्रम्॥

अस्य सुभाषितस्य भावार्थः एषः—बुद्धिमान् पुरुषः वृक्षवत् भवति। तस्य ज्ञानरूपिणः वृक्षस्य मूलं नित्योपासना अस्ति। वेदाः तस्य शाखाः सन्ति, सत्कर्माणि च तस्य पत्राणि भवन्ति। अतः मूलस्य यत्नपूर्वकं संरक्षणं करणीयम्, यतः यदि मूलं नश्यति तर्हि न शाखाः तिष्ठन्ति, न च पत्राणि।

हिन्दुस्थान समाचार / अंशु गुप्ता