हिमाचले पञ्च एचपीएसअधिकारिणः पदोन्नताः सन्तो जाताः आईपीएस
शिमला, 25 फ़रवरीमासः (हि.स.)। हिमाचलप्रदेशपुलिससेवायाः पञ्च अधिकारिणः भारतीयपुलिससेवायां पदोन्नताः अभवन्। भारतसर्वकारस्य गृहमन्त्रालयेन अस्य विषयस्य सम्बन्धे अधिसूचना निर्गता, या तत्क्षणात् प्रभावी मता अस्ति। अस्य निर्णयस्य अनन्तरं प्रदेशपुलिसविभ
हिमाचले पञ्च एचपीएसअधिकारिणः पदोन्नताः सन्तो जाताः आईपीएस


शिमला, 25 फ़रवरीमासः (हि.स.)।

हिमाचलप्रदेशपुलिससेवायाः पञ्च अधिकारिणः भारतीयपुलिससेवायां पदोन्नताः अभवन्। भारतसर्वकारस्य गृहमन्त्रालयेन अस्य विषयस्य सम्बन्धे अधिसूचना निर्गता, या तत्क्षणात् प्रभावी मता अस्ति। अस्य निर्णयस्य अनन्तरं प्रदेशपुलिसविभागे एते अधिकारिणः अधुना भारतीयपुलिससेवाकैडरे अन्तर्भाविताः भविष्यन्ति।

निर्गताधिसूचनानुसारम् एषा पदोन्नतिः भारतीयपुलिससेवा भर्ती नियम १९५४ तथा भारतीयपुलिससेवा नियुक्त्या पदोन्नति विनियम १९५५ इत्येतयोः अन्तर्गतं कृता अस्ति। चयनसूची वर्ष २०२३ तथा २०२४ मध्ये अन्तर्भूतानाम् अधिकारिणां भारतीयपुलिससेवायां नियुक्तिः कृता अस्ति, सर्वेभ्यः हिमाचलप्रदेशकैडरः आवंटितः अस्ति।

चयनसूची २०२३ मध्ये अन्तर्भूताः चत्वारः अधिकारिणः पदोन्नतिं प्राप्तवन्तः। तेषु वीरेन्द्र कालिया, भूपिन्दर सिंह, नरेश कुमार, विनोद कुमार च सन्ति। चयनसूची २०२४ मध्ये शमशेर सिंह भारतीयपुलिससेवायां पदोन्नतः अभवत्।

अधिसूचनायां उक्तं यत् सर्वे पदोन्नताः अधिकारिणः भारतीयपुलिससेवा प्रोबेशन नियम १९५४ अनुसारं एकवर्षीयां परिवीक्षाकालावधिं स्थाप्यन्ते। अस्मिन् काले ते निर्दिष्टप्रक्रियानुसारं इंडक्शन प्रशिक्षणम् अपि सम्पादयिष्यन्ति। प्रशिक्षणं परिवीक्षाकालं च सफलतया पूर्णीकृत्य एव तेषां नियुक्तिः नियमितरूपेण स्वीकृता भविष्यति।

गृहमन्त्रालयेन निर्गते आदेशे अपि स्पष्टं कृतं यत् एषा नियुक्तिः अधिसूचनाया निर्गमनतिथेः आरभ्य प्रभावी भविष्यति।

---------------

हिन्दुस्थान समाचार