राजस्व पटवारी संघः कैशलेस चिकित्सा सुविधानामकरोत् स्वागतम्
रायपुरम्, 25 फ़रवरीमासः (हि.स.)। छत्तीसगढ़ राज्यस्य राजस्वपटवारीसंघेन राज्यस्य शासकीयसेवकानां कृते कैशलेसचिकित्सासुविधानां नूतनयोजनायाः स्वागतं कृतम्। अस्यां योजनायां ई हेल्थकार्डस्य माध्यमेन कर्मचारिजनाः कैशलेसोपचारं प्राप्तुं शक्नुवन्ति। राजस
राजस्व पटवारी संघः कैशलेस चिकित्सा सुविधानामकरोत् स्वागतम्


रायपुरम्, 25 फ़रवरीमासः (हि.स.)।

छत्तीसगढ़ राज्यस्य राजस्वपटवारीसंघेन राज्यस्य शासकीयसेवकानां कृते कैशलेसचिकित्सासुविधानां नूतनयोजनायाः स्वागतं कृतम्। अस्यां योजनायां ई हेल्थकार्डस्य माध्यमेन कर्मचारिजनाः कैशलेसोपचारं प्राप्तुं शक्नुवन्ति।

राजस्वपटवारीसंघस्य प्रान्ताध्यक्षः भागवत कश्यप तथा प्रदेशसचिवः निर्मल साहू बुधवासरे वक्तव्यं प्रकाशितवन्तौ। तौ उक्तवन्तौ यत् एषा घोषणा कर्मचारिवर्गस्य कृते अत्यन्तमहत्त्वपूर्णा अस्ति।

अधुना शासकीयसेवकाः उपचारसमये चिकित्साव्ययं स्वयमेव वहन्ति तथा उपचारानन्तरं बिलप्रस्तुत्या प्रतिपूर्तिं प्राप्नुवन्ति। अस्यां प्रक्रियायां अनेकाशाः कठिनताः अनुभूयन्ते। कैशलेसचिकित्सासुविधा कर्मचारीवर्गस्य तेषां परिवाराणां च कृते महान् रक्षणप्रदा ऐतिहासिकनिर्णयः अस्ति। अनेन कर्मचारीवर्गः आर्थिकचिन्तायाः बहुधा मुक्तिं प्राप्स्यति।

---------------

हिन्दुस्थान समाचार