आईआईएस दंगल चैंपियनशिप इत्यस्य भव्य–शैलीया समापनम्, निशु तथा यश इत्येतयोः प्रभावः प्रखरः आसीत्
हिसारनगरम् (हरियाणा), २५ फरवरीमासः (हि.स.)। इंस्पायर-इंस्टीट्यूट-ऑफ-स्पोर्ट (आईआईएस) दंगल-चैंपियनशिप 2026 इत्यस्य समापनं अत्यन्तं भव्यरीत्या सम्पन्नम्। अत्र अन्त:–२३ विश्व–चैम्पियनशिप–पदक–विजेतारौ निशु तथा यश: स्व स्व–भारवर्गेषु स्वर्ण–पदकं जितवन्त
भारतीय पहलवान निशु


हिसारनगरम् (हरियाणा), २५ फरवरीमासः (हि.स.)। इंस्पायर-इंस्टीट्यूट-ऑफ-स्पोर्ट (आईआईएस) दंगल-चैंपियनशिप 2026 इत्यस्य समापनं अत्यन्तं भव्यरीत्या सम्पन्नम्। अत्र अन्त:–२३ विश्व–चैम्पियनशिप–पदक–विजेतारौ निशु तथा यश: स्व स्व–भारवर्गेषु स्वर्ण–पदकं जितवन्तौ, येन ते विशेषतया चर्चायां आगतवन्तौ।

आईआईएस–संस्थया पारले-जी–संस्थाया: सहकार्ये आयोजिते अस्यां प्रतियोगितायां ३०० त: अधिकाः प्रविष्टयः प्राप्ताः, तथा च प्रायः २४० मल्लयोद्धार: नव–भारवर्गेषु सहभागिनः आसन्। प्रतियोगिता शहीद-मदनलाल-धींगरा बहुउद्देशीय-सभागार:, गिरी–केन्द्रे, चौधरी-चरणसिंह-हरियाणाकृषि-विश्वविद्यालये, हिसार–नगरे आयोजिता।

५३ किलोग्राम–भारवर्गे निशु, या अद्यतनं अंत:-23 विश्व-मल्लयुद्ध-चैंपियनशिप–स्पर्धायां नोवीसाद:, सर्बिया–देशे कांस्य–पदकं जितवती, सा सम्पूर्ण–प्रतियोगितायां उत्कृष्टं प्रदर्शनं कृत्वा स्वर्ण–पदकं स्वीकृतवती। ७४ किलोग्राम–फ्रीस्टाइल–वर्गे यश: (दिल्ली–प्रतिनिधिः) सशक्तं प्रदर्शनं कृत्वा स्वर्ण–पदकं प्राप्तवान्। निश्वै ३१,००० रूप्यकाणि, यशाय च ५१,००० रूप्यकाणि पुरस्कार–रूपेण प्रदत्तानि।

विजयानन्तरं यशः अवदत्— “एषः मम कृते श्रेष्ठः अवसरः आसीत्, यत्र उच्च–स्तरीय–प्रतिद्वन्दिभिः सह स्पर्धितुं अवसरः प्राप्तः। सम्मान–विजयः सदा विशेषः भवति; भविष्ये अपि एतादृशाः प्रतियोगिताः भविष्यन्तीति आशासे।” २०२५ तमे वर्षे प्रथमवारं आयोजितायाः अस्याः स्पर्धायाः सफलतायाः अनन्तरं, द्वितीय–संस्करणे देशस्य सर्वेभ्यः भागेभ्यः प्रतिभागिनः आगतवन्तः। प्रायः २० प्रतिशतं प्रविष्टिनां हरियाणा–राज्यस्य बहिः आगताः। पुरुष–वर्गे प्रायः २५०, महिला–वर्गे च ५० अधिकाः प्रविष्टयः अभवन्।

अत्र आईआईएस–संस्थाया: बहवः प्रमुख–मल्ला: अपि सहभागिनः आसन्— काजल (+६२ किग्रा), निशु (५३ किग्रा), सूरज: (६० किग्रा ग्रीको–रोमन, अन्त:–१७ विश्व–स्वर्ण–विजेता), सुमित: (६० किग्रा ग्रीको–रोमन, अन्त:–२० विश्व–कांस्य–विजेता) तथा सुमितमलिक: (५७ किग्रा फ्रीस्टाइल, अन्त:–२० विश्व–कांस्य–विजेता) इत्यादयः।

सम्पूर्णा स्पर्धा एकस्मिन् एव दिने त्रिषु मैट्-इत्येतेषु समानान्तर–स्पर्धाभि: आयोजिताभवत्, येन दर्शकाः क्रीडकाश्च निरन्तरं रोमाञ्चकं संघर्षं दृष्टवन्तः। महिला–प्रशिक्षिका कोसेई अकाइशी तथा उच्च–प्रदर्शन–निदेशकः गैरी हॉल अपि प्रतिभा–परिक्षणाय उपस्थितौ आस्ताम्।

साई-आईआईएस हिसार: केंद्र–सञ्चालन–प्रमुखः सत्यप्रकाश: अवदत्— “एतत् आयोजनम् उदयोन्मुख–तारकाणां कृते उत्तमः मंचः अस्ति। राष्ट्रिय–शिविर–मध्यकाले आयोजनं समस्यापूर्णम् आसीत्, किन्तु अस्मात् नूतन–वंशाय वरिष्ठ–स्तरे क्रीडितुं अवसरः प्राप्तः।”

उच्च–प्रदर्शन–निदेशकः गैरी हॉल: अपि अवदत्— “एषा मल्लयुद्ध–स्पर्धा युवा–मल्लानां स्व–क्षमतानां परिक्षणाय परिष्काराय च उत्कृष्टः अवसरः अस्ति।”

प्रमुखाः परिणामाः (वरिष्ठ–वर्गः)

फ्रीस्टाइल

५७ किग्रा — स्वर्णपदकम् : सतेंद्र: (हरियाणा), रजतः : रोहित: (हरियाणा)

७४ किग्रा — स्वर्णः : यश: (दिल्ली), रजतः : अंकित: जसमेर: (हरियाणा)

१२५ किग्रा — स्वर्णः : रोहित: (हरियाणा), रजतः : दीपक: (हरियाणा)

ग्रीको–रोमन

६० किग्रा — स्वर्णः : सूरज: (हरियाणा)

७७ किग्रा — स्वर्णः : विकास: (हरियाणा)

१३० किग्रा — स्वर्णः : विपिन: (दिल्ली)

महिला–स्पर्धा

५३ किग्रा — स्वर्ण: : निशु (हरियाणा)

६२ किग्रा — स्वर्ण: : अंजलि (हरियाणा)

७६ किग्रा — स्वर्ण: : चंचल (हरियाणा)

एषा आईआईएस-मल्लयुद्ध-स्पर्धा भविष्ये अपि उदयोन्मुख–मल्लानां कृते महत्त्वपूर्णः मंचः सिद्ध्यति, यत्र ते वरिष्ठ–स्तरीय–प्रतिस्पर्धायाः बहुमूल्यं अनुभवम् अवाप्स्यन्ति।

हिन्दुस्थान समाचार / अंशु गुप्ता