Enter your Email Address to subscribe to our newsletters

नव दिल्ली, 25 फ़रवरीमासः (हि.स.)।
भारतीयदूरसंचारनियामकप्राधिकरणम् ट्राई इति संस्थया स्वस्य स्थापना-दिवसे “प्रत्येकगृहं प्रति दूरदर्शनजालस्य प्रसारः नीतिः प्रौद्योगिकी च व्यापारीयरचनान्यः” तथा “नेटवर्क् स्लाइसिंग् नेट् उदासीनता च” इत्यादिषु विषयेषु विचारविमर्शः कृतः।
ट्राई संस्थया अत्र विश्वव्यापारकेन्द्रे बुधवासरे स्वीयः एकोनत्रिंशः स्थापना-दिवसः आचरितः। अस्मिन् अवसरे अध्यक्षः अनिलकुमारलाहोटी, सचिवः अतुलकुमारचौधरी, सदस्याः रितुरंजनमित्तर, डॉ एमपी तंगिराला, प्रो रंजनबोस, नीलकण्ठमिश्रः, आईआईएम अहमदाबाद संस्थायाः प्रो विश्वनाथपिंगाली, सूचना-प्रसारणमन्त्रालयस्य अतिरिक्तसचिवः प्रभातकुमारः, केसीसीएल संस्थायाः मुख्यकार्यकारी पद्मकुमारः, रिलायन्स जियो इन्फोकॉम लिमिटेड संस्थायाः अध्यक्षः यू के श्रीवास्तवः, एसिक्सन संस्थातः उमंगजिन्दलः तथा ब्रॉडबैंड इंडिया फोरम संस्थातः अनिलटण्डनः उपस्थिताः आसन्।
कार्यक्रमे केन्द्रीयसंचारमन्त्री ज्योतिरादित्यसिंधिया इत्यस्य दृश्यसन्देशः अपि प्रसारितः। तेन ट्राई संस्थायै स्थापना-दिवसस्य शुभाशयाः प्रदत्ताः तथा नूतनप्रौद्योगिकी-युगे समुचितनियामकव्यवस्थायाः आवश्यकता अस्ति इति उक्तम्।
अध्यक्षः अनिलकुमारलाहोटी उक्तवान् यत् 5जी तथा भावी 6जी इत्यादयः प्रौद्योगिक्यः जालसेवाः च नूतनरूपेण परिवर्तयन्ति। अतः नियामकसंरचनां लचीलीं पारदर्शिनीं च कर्तुं आवश्यकम्, येन नवोन्मेषः प्रोत्साहितः भवेत् उपभोक्तृहितानि च संरक्षितानि स्युः।
सचिवः अतुलकुमारचौधरी 1997 तमे वर्षे प्राधिकरणस्य स्थापनां स्मारयन् उक्तवान् यत् स्वतन्त्रनियामकसंस्था उपभोक्तृहितसंरक्षणे दूरसंचारक्षेत्रे निष्पक्षस्पर्धानिश्चये च महत्त्वपूर्णां भूमिकां निर्वहति। तेन दूरदर्शनस्य सामाजिकसमावेशे योगदानं तथा नेटवर्क् स्लाइसिंग् इत्यादिषु नूतनप्रौद्योगिकीषु पारदर्शितारक्षणस्य आवश्यकता अपि प्रतिपादिता।
सदस्या रितुरंजनमित्तर उक्तवती यत् पारदर्शी परामर्शप्रक्रिया नवोन्मेषप्रोत्साहनं च दूरसंचारक्षेत्रस्य स्थैर्याय आवश्यकम्। सदस्यः डॉ एमपी तंगिराला तकनीकीमानकीकरणस्य दत्तांशाधारितनियमनस्य च महत्त्वं निर्दिष्टवान्। प्रो रंजनबोस शिक्षाजगतः उद्योगेन सह सहयोगस्य नवोन्मेषाय महत्त्वं प्रतिपादितवान्। सदस्यः नीलकण्ठमिश्रः डिजिटलसंरचनां भारतस्य आर्थिकवृद्धेः आधारम् इति निरूप्य नियामकस्पष्टता स्पर्धात्मकतटस्थता च इति विषययोः बलं दत्तवान्।
---------------
हिन्दुस्थान समाचार