Enter your Email Address to subscribe to our newsletters


यूपी में ‘मेगा ट्रांसफॉर्मेशन’ से उद्योगों का बढ़ा भरोसा
मिंडा ने इलेक्ट्रॉनिक्स, एडवांस्ड मैन्युफैक्चरिंग और इलेक्ट्रिक व्हीकल मोबिलिटी में निवेश का किया ऐलान
लखनऊ/टोक्यो, 25 फरवरीमासः (हि.स.)।
जापानदेशस्य राजधानी टोक्यो नगरे आयोजिते उत्तरप्रदेश निवेश रोड शो कार्यक्रमे मुख्यमंत्रिणः योगिनः आदित्यनाथस्य सम्बोधनात् पूर्वं देशस्य प्रमुखाः वाहननिर्माणकम्पनीनां वरिष्ठप्रतिनिधयः उत्तरप्रदेशं भारतस्य उदितं औद्योगिकवृद्धेः इञ्जिन इति निरूपितवन्तः। ते अवदन् यत् योगी आदित्यनाथस्य नेतृत्वे गत नववर्षेषु राज्ये व्यापकः परिवर्तनप्रवाहः अभवत् येन उत्तरप्रदेशः निवेशार्थं सर्वाधिकविश्वसनीयगन्तव्यरूपेण प्रतिष्ठितः।
महान्तपरिवर्तनेन परिवर्तिता उत्तरप्रदेशस्य परिचयः इति राहुल भारती
राहुल भारती, मारुति सुजुकी इत्यस्य वरिष्ठकार्यकारीअधिकारी कॉरपोरेट् अफेयर्स विभागे, उक्तवान् यत् प्रायः नववर्षपूर्वं यावत् उत्तरप्रदेशः विनिर्माणपर्यावरणस्य कृते आकर्षकः न मन्यते स्म, किन्तु नूतनसरकारस्य गठनानन्तरं राज्ये महान्तपरिवर्तनम् दृष्टिगोचरम् अभवत्। तेन उक्तं यत् मुख्यमंत्री योगी आदित्यनाथेन उत्तरप्रदेशं सर्वेषु क्षेत्रेषु प्रथमस्थानप्राप्त्यर्थं लक्ष्यं निर्धारितम्, अल्पकाल एव तस्य फलानि स्पष्टतया दृश्यन्ते।
अद्य उत्तरप्रदेशः राजस्वसंग्रहे, वित्तीयअनुशासने, चलदूरवाणीनिर्माणे, द्रुतमार्गजाले, कृषिउत्पादने, वृक्षारोपणे, एथेनॉल उत्पादन, हस्तशिल्पनिर्यात तथा पर्यटनक्षेत्रेषु अग्रगण्यः अस्ति। विशेषतया विद्युतवाहन तथा दृढसंकरवाहननीतेः कारणात् राज्यं देशे ईवी तथा हाइब्रिडवाहनवृद्धिदरे शीर्षस्थाने प्रतिष्ठितम्। एतत् सर्वं राजस्वह्रासं विना, अपितु राजस्ववृद्ध्या सह साधितम्।
राहुल भारती उत्तरप्रदेशस्य नीतिव्यवस्थां “वाइब्रेंट पॉलिसी इकोसिस्टम” इति वर्णयन् अवदत् यत् दृढा कानूनव्यवस्था, शीघ्रनिर्णयक्षमता तथा त्वरितक्रियान्वयनम् उद्योगानां कृते विश्वसनीयपर्यावरणं निर्माति। सुब्रोस तथा स्पार्क मिंडा इत्यादयः ऑटो-कम्पोनेन्ट-कम्पन्यः उत्तरप्रदेशे सक्रियाः सन्ति, येन राज्यस्य ऑटोमोबाइल्-पर्यावरणं सुदृढीकृतम्।
स्केल स्पीड स्टेबिलिटी च प्रतीकरूपेण उत्तरप्रदेशः इति आकाश मिंडा
आकाश मिंडा, मिंडा कॉरपोरेशन लिमिटेड इत्यस्य कार्यकारीनिर्देशकः, अवदत् यत् अद्यतनः उत्तरप्रदेशः स्केल स्पीड स्टेबिलिटी च इत्येतयोः सशक्तं उदाहरणम् अस्ति। आधुनिकद्रुतमार्गाः, मालवाहनमार्गाः, औद्योगिककेन्द्राणि तथा सक्रियनीतयः राज्ये सुदृढं विनिर्माणाधारं निर्मिमन्ति।
उत्तरप्रदेशः भारतस्य विशालतमकार्यबलं तथा शीघ्रवर्धमानं उपभोक्तृबाजारं प्रत्यक्षतया उपलब्धं करोति। अतः जापानीसंस्थानां कृते अयं केवलं स्थानविशेषः न, अपितु दीर्घकालिकऔद्योगिकसफलतायाः प्रक्षेपपटलम् अस्ति।
आकाश मिंडा उक्तवान् यत् स्पार्क मिंडा इत्यस्य उत्तरप्रदेशे चतुर्दशाधिकाः विनिर्माणएककाः सञ्चालिताः सन्ति, यत्र षट्सहस्राधिकाः जनाः कार्यरताः सन्ति, तेषु पञ्चशताधिकाः दिव्याङ्गजनाः अपि सन्ति। यीडा क्षेत्रे प्रायः द्विलक्षवर्गमीटर भूमेः आवंटनं केवलं पञ्चचत्वारिंशद्दिनेषु सम्पन्नम्, एतत् राज्यस्य व्यवसायसुलभतायाः द्रुतता पारदर्शिता च प्रदर्शयति।
अन्ते तेन घोषिता यत् कम्पनी इलेक्ट्रॉनिक्स बैकवर्ड इंटीग्रेशन, उन्नतविनिर्माण तथा विद्युतवाहनगतिशीलताक्षेत्रेषु निवेशं करिष्यति, येन आगामिषु द्वित्रिवर्षेषु त्रिसहस्रात् चतुःसहस्रपर्यन्तं प्रत्यक्ष अप्रत्यक्षं जीविकाः सृज्यन्ते।
---------------
हिन्दुस्थान समाचार