वाराणसी: काशीपुराधिपतेः वाग्दानतः पूर्वं महंत आवासे रजत पालकी पूजनं,सायंकालीनो दिव्यश्रृंगारश्च
—गुरूवार शाम को बाबा गौना लेने आएंगे “गौरा-सदनिका”,तैयारी पूरी,शिवभक्तों में उत्साह वाराणसी,25 फरवरीमासः (हि.स.)। उत्तरप्रदेशस्य धार्मिकनगरे वाराणस्यां काश्यां काशीपुराधिपतेः बाबा विश्वनाथस्य गौनोत्सवः रंगभरीएकादशीपर्वणि निमित्तीकृत्य शिवभक्ताना
फाइल फोटो


—गुरूवार शाम को बाबा गौना लेने आएंगे “गौरा-सदनिका”,तैयारी पूरी,शिवभक्तों में उत्साह

वाराणसी,25 फरवरीमासः (हि.स.)।

उत्तरप्रदेशस्य धार्मिकनगरे वाराणस्यां काश्यां काशीपुराधिपतेः बाबा विश्वनाथस्य गौनोत्सवः रंगभरीएकादशीपर्वणि निमित्तीकृत्य शिवभक्तानां मध्ये महानुत्साहः दृश्यते।

बाबायाः गौनोत्सवे मातुः गौरायाः रजतचलविग्रहाय नवगौरी नवदुर्गाणां आह्वानमन्त्रैः पूजितां हरिद्रां समर्पिता अस्ति। गौनोत्सवरसम्यां बुधवासरे टैढ़ीनीमस्थे महन्तावासे अपराह्णे त्रिवादने बाबायाः पारम्परिकरजतपालक्याः पूजनं भविष्यति। पालक्याः शोधनं वर्णलेपनं सज्जीकरणं च सम्पन्नं जातम्।

महन्तः पण्डितवाचस्पतितिवारी उक्तवान् यत् सायं षड्वादनत्रिंशन्मिनिटसमये मातुः गौरायाः षोडशीश्रृंगारः भविष्यति। पारम्परिककाशीशैलीनुसारं रेशमीवस्त्रैः स्वर्णाभरणैः पुष्पमालाभिः चन्दनरोलीलेपनैः च अलंकृतं स्वरूपं श्रद्धालवः सायंकाले द्रक्ष्यन्ति।

तेन उक्तं यत् बाबायाः गौनोत्सवनिमित्तं महन्तावासः अधुना गौरायाः मायकरूपं धारयति। प्राङ्गणे सुसज्जितः मङ्गलमण्डपः, भित्तिषु पारम्परिकालङ्काराः, स्त्रीणां गीतानि च समग्रतया तादृशं पारिवारिकं वातावरणं सृजन्ति, यत् काश्याः विशिष्टपरिचायकम् अस्ति।

षड्विंशतितमे फरवरीगुरुवासरे सायं षड्वादनत्रिंशन्मिनिटसमये बाबायाः गौनोत्सवग्रहणार्थं “गौरासदनिका” इति स्थाने प्रतीकात्मकागमनं भविष्यति। एषः समारोहः तं लोकभावं सजीवं करोति, यदा वरपक्षः वधूं नेतुं मायके आगच्छति।

अस्मिन् अवसरे बाबा विश्वनाथस्य प्रतिमायै पारम्परिकराजसीवेशभूषा धार्यते। अस्मिन् वर्षे बाबा विशेषं “देवकिरीट” धारयिष्यति, यत् काश्याः पारम्परिककिरीटशिल्पिना नन्दलालअरोडा इत्यनेन निर्मितम्।

---------------

हिन्दुस्थान समाचार