विजय–रश्मिकयोः हरिद्रा–समारोहे राजसी–वर्णस्य शोभा, प्रधानमन्त्री मोदी शुभकामनाः प्रेषितवान्
उदयपुरनगरम्, २५ फरवरीमास: (हि.स.)। ह्रदानां नगरी उदयपुरनगरम् अद्यत्वे चलचित्र–तारकयोः राजसी–विवाहस्य साक्षी भवति। दक्षिण–चलचित्र–उद्योगस्य प्रसिद्धौ नटौ विजय-देवरकोंडा रश्मिकामंदाना च बुधवासरे हरिद्रा–संस्कारं कृतवन्तौ। अस्मिन् समारोहे पारम्परिक–पी
विजय–रश्मिका की हल्दी में सजा शाही रंग, पीएम मोदी ने भेजी शुभकामनाएं


उदयपुरनगरम्, २५ फरवरीमास: (हि.स.)। ह्रदानां नगरी उदयपुरनगरम् अद्यत्वे चलचित्र–तारकयोः राजसी–विवाहस्य साक्षी भवति। दक्षिण–चलचित्र–उद्योगस्य प्रसिद्धौ नटौ विजय-देवरकोंडा रश्मिकामंदाना च बुधवासरे हरिद्रा–संस्कारं कृतवन्तौ। अस्मिन् समारोहे पारम्परिक–पीत–पुष्पैः अलङ्कारः, विशेष–दीप–विन्यासः, सङ्गीतं च सन्निहितं आसीत्, येन उत्सवमयं वातावरणं दृश्यते स्म। गुरुवासरे उभौ विवाह–बन्धने बद्धौ भविष्यतः।

हरिद्रा-समारोहात् पूर्वं मङ्गलवासर–रात्रौ होटल-मोमेंटोस-एककस्य इत्यत्र सङ्गीत–समारोह: आयोजित: अभवत्, यस्मिन् वर–वधू परस्परं हस्तं धृत्वा आगतवन्तौ। विजयः कृष्ण–शेरवाणीं धारितवान्, रश्मिका तु रजत–वस्त्रेषु समलङ्कृता आसीत्। परिवारजनाः समीप–मित्राणि च दक्षिण–चलचित्र–गीतैः तथा बॉलीवुड–गीतैः नृत्य–प्रस्तुतिं कृतवन्तः, उभयोः विशेष–प्रस्तुतिः तु सर्वेषां आकर्षण–केन्द्रं अभवत्।

विवाहे सहभागाय ‘अर्जुन रेड्डी’ तथा ‘एनिमल’ इत्यादि चलचित्रयोः निर्देशकः संदीप: रेड्डी वांगा अपि उदयपुरम् आगतः। ‘अर्जुन रेड्डी’ चलचित्रे विजयः मुख्य–भूमिकायां आसीत्, ‘एनिमल’ चलचित्रे रश्मिका महत्त्वपूर्णं पात्रं अभिनीतवती। एतदतिरिक्तं ईशा रेब्बा, आशिका रंगनाथ:, तरुणभास्करः, राहुल: रविन्द्रन् इत्यादयः अनेके विशिष्टाः व्यक्तयः अपि समारोहे सहभागिन: अभवन्।

विवाह–संस्काराणां कृते दक्षिण–भारतदेशात् पण्डिताः आमन्त्रिताः सन्ति। होटेल–परिसरे अलङ्कारः स्वल्प–हरित–वर्ण–छायाभिः, नव–पुष्पैः, फलैः च शोभितैः केन्द्र–सज्जाभिः कृतः। अतिथिनां कृते दक्षिण–भारतीय–पाका:, पञ्जाबी–व्यञ्जनानि, जापानी–पाकाः च विशेषतया व्यवस्थापिताः सन्ति। अस्मिन् विवाहे प्रायः २०० चयनिताः अतिथयः सहभागं करिष्यन्ति, तथा च ३–४ मार्चतिथ्योः हैदराबाद–नगरे स्वागत–समारोहः प्रस्तावितः अस्ति।

प्रधानमन्त्री नरेन्द्रमोदी अपि उभाभ्यां शुभकामनाः प्रेषितवान्। स्व–सन्देशे ‘सखा सप्तपदी भव’ इति वाक्यस्य उल्लेखं कृत्वा दाम्पत्य–जीवनस्य नव–आरम्भाय आशीर्वादं दत्तवान्। उभयोः तारकयोः एषः राजसी–विवाहः न केवलं चलचित्र–जगतः, अपि तु उदयपुरस्य पर्यटन–परिदृश्ये अपि विशेष–आकर्षण–केन्द्रं जातम् अस्ति।

हिन्दुस्थान समाचार / अंशु गुप्ता