Enter your Email Address to subscribe to our newsletters

कोलकाता, 25 फरवरीमासः (हि.स.)। पश्चिमबङ्गराज्ये आगामिनि विधानसभानिर्वाचने निष्पक्षतया पारदर्शितया च सम्पन्नतार्थं भारत निर्वाचन आयोग केन्द्रीयबलानां नियोज्यमानयानानां मध्ये वैश्विकस्थाननिर्धारणप्रणालीयन्त्राणि स्थापयितुं निर्णयं कृतवान्। आयोगस्य मतानुसारं अस्य व्यवस्थाया द्वारा केन्द्रीयबलानां नियोजनं गतागमनं च प्रभावकरूपेण पर्यवेक्षितुं शक्यते।
निर्वाचनायोगेन केन्द्रीयबलानां नियोजनं द्वयोः चरणयोः कर्तुं निश्चयः कृतः। प्रथमचरणः आगामिमासस्य मार्चमासस्य प्रथमदिनात् आरभ्यते, यस्मिन् कुलं २४० कम्पन्यः राज्यं प्रेष्यन्ते। द्वितीयचरणे मार्चमासस्य दशमदिनात् आरभ्य अतिरिक्ताः २४० कम्पन्यः नियोजिताः भविष्यन्ति।
मुख्यनिर्वाचनाधिकारी उक्तवान् यत् जीपीएस निरीक्षणप्रणाल्याः माध्यमेन आयोगेन नियुक्ताः केन्द्रीयप्रेक्षकाः केन्द्रीयबलानां क्रियाकलापान् गतागमनं च निरीक्षितुं शक्नुवन्ति। अनेन एतत् सुनिश्चितं कर्तुं शक्यते यत् बलानां नियोजनं निर्दिष्टेषु क्षेत्रेषु प्रभावकरूपेण भवेत् तथा कस्यापि शिकायतस्य स्थितौ शीघ्रं सत्यापनं कर्तुं सम्भवेत्।
आयोगेन एतदपि निर्देशितं यत् केन्द्रीयबलानि राज्ये आगत्य क्षेत्राधिपत्याभियानं संचालयिष्यन्ति तथा स्थानिकभौगोलिकपरिस्थितिभ्यः आत्मानं परिचितं करिष्यन्ति, येन मतदानकाले सुरक्षा व्यवस्था दृढा भवेत्।
प्रथमचरणे नियोज्यमानासु २४0संस्थासु ११० संस्थाः केन्द्रीय आरक्षी पुलिसबलस्य, ५५ सीमा सुरक्षा बलस्य, २१ केन्द्रीय औद्योगिक सुरक्षा बलस्य, २७ भारत तिब्बत सीमा पुलिस बलस्य तथा २७ सशस्त्र सीमा बलस्य भविष्यन्ति।
द्वितीयचरणे कुलं २४० कम्पनीयासु १२० केन्द्रीय आरक्षी पुलिस बलस्य, ६५ सीमा सुरक्षा बलस्य, १६ केन्द्रीय औद्योगिक सुरक्षा बलस्य, २० भारत तिब्बत सीमा पुलिस बलस्य तथा १९ सशस्त्र सीमा बलस्य कम्पन्यः नियोजिताः भविष्यन्ति।
पूर्वनिर्वाचनेषु केन्द्रीयबलनियोजनसम्बन्धिषु प्राप्तशिकायतानां परिप्रेक्ष्ये आयोगेन एषः निर्णयः कृतः। आयोगस्य उद्देश्यं अस्ति यत् अस्मिन् निर्वाचने सुरक्षा व्यवस्थायां कापि न्यूनता न भवेत् तथा मतदातारः निर्भयतया स्वमताधिकारं प्रयुञ्जीरन्।--------------------
हिन्दुस्थान समाचार