ममता बनर्जी निर्वाचन- आयोगं प्रति साधितं लक्ष्यं, बह्वीनां परियोजनानां कृतम् उद्घाटनम्
कोलकाता, 25 फरवरीमासः (हि.स.)। पश्चिमबङ्गस्य मुख्यमन्त्री ममता बनर्जी बुधवासरे कोलकातानगरे बहूनां विकासपरियोजनानाम् उद्घाटनम् अकरोत् तथा च भारतनिर्वाचनायोगं प्रति तीक्ष्णम् आक्रमणम् अकरोत्। तया आरोपितं यत् निर्वाचनायोगः गुপ্তरूपेण १.२० कोटि वास्तवि
ममता


कोलकाता, 25 फरवरीमासः (हि.स.)। पश्चिमबङ्गस्य मुख्यमन्त्री ममता बनर्जी बुधवासरे कोलकातानगरे बहूनां विकासपरियोजनानाम् उद्घाटनम् अकरोत् तथा च भारतनिर्वाचनायोगं प्रति तीक्ष्णम् आक्रमणम् अकरोत्। तया आरोपितं यत् निर्वाचनायोगः गुপ্তरूपेण १.२० कोटि वास्तविकमतदातॄणां नामानि मतदाता-सूच्याः अपाकर्तुं प्रयतते।

दक्षिणकोलकातायाः भवानीपुरे जैनसमुदायस्य पवित्रस्मारकस्य ‘मानस्तम्भ’ उद्घाटनानन्तरं सभायां सम्बोधयन्ती सा अवदत् यत् लोकतन्त्रं गम्भीरसंकटावस्थां गच्छति। तस्याः आरोपः आसीत् यत् उच्चतम-न्यायालयस्य आदेशानाम् अपि पालनं न क्रियते तथा सर्वाणि आवश्यकदस्तावेजानि समर्पितानि सन्ति तथापि वास्तविकमतदातॄणां नामानि अपाक्रियन्ते।

तृणमूलकाङ्ग्रेसदलस्य प्रमुखा सा अवदत् यत् एषा लढाई केवलं कस्यचित् दलसमर्थकानां न, अपितु लोकतान्त्रिकाधिकाराणां संरक्षणार्थम् अस्ति। तया उक्तं यत् नामानि तृणमूलकाङ्ग्रेस, भारतीयजनतापार्टी, मार्क्सवादीकम्युनिस्टपार्टी अथवा काङ्ग्रेससमर्थकानां स्युः, किन्तु कस्यापि नागरिकस्य संवैधानिकाधिकारैः क्रीडा अस्वीकार्या। सा न्यायस्य प्रार्थनां करोति तथा जनान् अनावश्यकपीडनात् रक्षितुम् आह्वयति।

स्वस्य विधानसभाक्षेत्रं भवानीपुरं ‘मिनिभारतम्’ इति निर्दिशन्ती मुख्यमन्त्री अवदत् यत् अत्र विविधधर्मसमुदायानां जनाः पीढीभ्यः सौहार्दपूर्वकं निवसन्ति। दुर्गापूजा, क्रिस्मस-पर्व, ईद् इत्यादिषु सर्वेषां समुदायानां सहभागिता अस्य क्षेत्रस्य परम्परां संस्कृतिं च प्रकाशयति। मानस्तम्भे धार्मिकोपदेशाः चतुर्षु भाषासु उत्कीर्णाः सन्ति, येन अस्य समावेशभावना स्पष्टा भवति।

मुख्यमन्त्री अवदत् यत् राज्यसर्वकारेण प्रायः ८५० कोटिरूप्यकव्ययेन विभिन्नपरियोजनाः आरब्धाः। तासु मातृशिशुकेन्द्राणि, हुगलीजिलायाः फुरफुराशरीफे १०० शय्यायुक्तः चिकित्सालयः तथा उत्तरबङ्गस्य अलीपुरद्वारचिकित्सालये ५० शय्यायुक्तः गम्भीरपरिचर्याकक्षः अन्तर्भवन्ति। एताभिः परियोजनाभिः जनानां दीर्घकालिकाः अपेक्षाः पूर्णाः भविष्यन्ति इति सा अवदत्।

अन्यच्च, तया १०० अधिकाः सीएनजी बसयानानि तथा अग्निशमनसाधनयुक्ताः द्विचक्रवाहनानि प्रेषितानि। २० सौरऊर्जाचालित उच्चदीपस्तम्भानाम् उद्घाटनं कृतम् तथा निर्माणश्रमिकाणां कृते १५ कोटिरूप्यकव्ययेन निर्मितस्य छात्रावासस्य आभासीयम् उद्घाटनम् अपि कृतम्।

‘सबुजसाथी’ योजनायाः अन्तर्गतं द्वादशकक्ष्यायाः विद्यार्थिनां कृते १२ लक्षसायकिलवितरणस्य आरम्भः कृतः। २०१५-१६ वर्षात् आरभ्य अद्यपर्यन्तं नवमातः द्वादशकक्ष्यापर्यन्तं विद्यार्थिभ्यः १.५० कोट्यधिकाः सायकिलाः वितरिताः, यस्मिन् राज्यसर्वकारेण प्रायः ५००० कोटिरूप्यकाणि व्ययितानि।

न्यूटाउन् प्रदेशे अल्पसंख्यकसमुदायानां कृते ३० कोटिरूप्यकव्ययेन निर्मीयमाणस्य सांस्कृतिककेन्द्रस्य शिलान्यासं कृत्वा सा अवदत् यत् एतत् केन्द्रं सर्वेषां अल्पसंख्यकसमुदायानां सांस्कृतिककार्यक्रमाणां कृते उपलब्धं भविष्यति। स्वस्य विधायकक्षेत्रविकासकोषात् १ कोटिरूप्यकदानस्य घोषणां कृत्वा सन्तकुटियागुरुद्वारस्य बहिः एकस्य द्वारस्य उद्घाटनम् अपि अकरोत्।।-----------------

हिन्दुस्थान समाचार