Enter your Email Address to subscribe to our newsletters

मुख्यमंत्रिणः योगिनः जापानभवरमणे लब्ध मेगा निवेशप्रस्तावः, जापानस्य संस्थाभिः उत्तरप्रदेशे दर्शिता निवेशाय उत्सुकता
कृषिः अथ च औद्योगिकयांत्रिकी क्षेत्रे वैश्विकसंस्थानां भागिता, ऑटोमोटिव इलेक्ट्रॉनिक्स अथ च एडवांस कंपोनेंट मैन्युफैक्चरिंग इत्याभ्यां प्रवर्धनम् ।
लखनऊ/जापानम् , 25 फरवरीमासः (हि.स.)।
मुख्यमन्त्रिणो योगिनः आदित्यनाथस्य जापानदेशभ्रमणस्य प्रथमदिने औद्योगिकनिवेशसम्बन्धे महत्त्वपूर्णा प्रगति: अभवत्। विविधाभिः जापानीयकम्पनीभिः सह प्रायः ११ सहस्रकोटिरूप्यकपरिमाणेषु सहमतिपत्रेषु हस्ताक्षराणि कृतानि।
जापानदेशे येषां कम्पनीनाम् सह उत्तरप्रदेशसर्वकारस्य समझौतापत्राणि हस्ताक्षरितानि, तासु कुबोटा कार्पोरेशन, मिण्डा कार्पोरेशन, जापान एविएशन इलेक्ट्रॉनिक्स इण्डस्ट्री, नागासे एण्ड कम्पनी लिमिटेड, सीको एड्वान्स, ओ एण्ड ओ समूहः, फूजी जापनीज जेवी, फूजी सिल्वरटेक कंक्रीट प्राइवेट लिमिटेड इत्यादयः सन्ति। एताः सहमतयः कृषियन्त्रनिर्माणे, औद्योगिकयन्त्रनिर्माणे, जलपर्यावरणाधारसंरचनासमाधानेषु, वाहननिर्माणे, इलेक्ट्रॉनिक्सक्षेत्रे, औद्योगिकमुद्रणग्राफिक्सक्षेत्रे, आतिथ्यव्यवसाये, स्थावरसम्पत्तिक्षेत्रे च सम्बद्धाः सन्ति। एतेन विनिर्माणक्षमताविस्ताराय औद्योगिकसहकार्याय च नूतना दिशा प्रदत्ता इति अपेक्षा अस्ति।
कुबोटा कार्पोरेशन नाम कम्पनी १८९० तमे वर्षे स्थापिता। अस्य मुख्यालयः ओसाकानगरे वर्तते। एषा कृषि तथा औद्योगिकयन्त्रनिर्माणक्षेत्रे वैश्विकपरिचितिम् अधिगतवती। ट्रैक्टर्, हार्वेस्टर्, इञ्जिन्, निर्माणोपकरणानि तथा जलपर्यावरणाधारसमाधानानि यथा नलिकाः, पम्पाः, शोधनप्रणाल्यः च अस्य कार्यक्षेत्रे अन्तर्भवन्ति। एस्कॉर्ट्स् कुबोटा लिमिटेड् इत्यनेन सह सहयोगेन भारतदेशे विनिर्माणविस्तारं कृषियन्त्रीकरणक्षेत्रे च स्वस्थिति सुदृढीकरोति।
मिण्डा कार्पोरेशन या स्पार्क् मिण्डा समूहस्य अङ्गम् अस्ति, सा वाहनघटकनिर्माणे अग्रणी भारतीयकम्पनी अस्ति। एषा मेक्ट्रॉनिक्स्, वायरिङ् हार्नेस्, प्लास्टिक् आन्तरिकघटकान्, सेन्सर्, विद्युत् वाहनसमाधानानि च प्रददाति। जापान एविएशन इलेक्ट्रॉनिक्स इण्डस्ट्री या जेएई इति नाम्ना प्रसिद्धा, वाहनतथा अन्तरिक्षक्षेत्रयोः उन्नतकनेक्टर् इलेक्ट्रॉनिक् अन्तराफलकसमाधानयोः विशेषज्ञता धारयति। नागासे एण्ड कम्पनी लिमिटेड् या विविधीकृता जापानीयव्यापारप्रौद्योगिकीकम्पनी अस्ति, सा रसायनद्रव्येषु, उन्नतसामग्रीषु, गतिशीलतासमाधानेषु, इलेक्ट्रॉनिक्सक्षेत्रे च सक्रियाऽस्ति। एतासां कम्पनीनाम् मध्ये सहयोगेन वाहनइलेक्ट्रॉनिक्स् उन्नतघटकनिर्माणक्षेत्रे च प्रोत्साहनं भविष्यति।
सीको एड्वान्स या उच्चकार्यक्षमतायुक्तस्क्रीनमुद्रणमस्य लेपनसमाधानानां कृते प्रसिद्धा जापानीयकम्पनी अस्ति। अस्य उत्पादाः वाहनचिह्नेषु, औद्योगिकग्राफिक्स्, इलेक्ट्रॉनिक् पटलनिर्माणे, काचमुद्रणे, उपभोक्तृउपकरणेषु च उपयुज्यन्ते। भारतदेशे स्वविनिर्माणकेन्द्रद्वारा विविधेषु औद्योगिकक्षेत्रेषु आपूर्तिं करोति। ओ एण्ड ओ समूहः अपि आतिथ्यव्यवसाये स्थावरसम्पत्तिक्षेत्रे च निवेशसम्बन्धे सहमतिं कृतवान्।
प्रथमदिने सम्पन्नाः एताःसहमतयो भारतजापानयोः औद्योगिकसहकार्ये नूतनगतिं दास्यन्ति इति मन्यते।
---------------
हिन्दुस्थान समाचार