मुख्यमंत्री डॉ.यादवः अद्य समूहानां “आजीविका–विपणन–क्षमता–वर्धन–कार्यशालायाः” शुभारम्भं करिष्यति
भोपालनगरम्, २५ फरवरीमासः (हि.स.)। मध्यप्रदेशस्य मुख्यमन्त्री डॉ.मोहनयादव: अद्य बुधवासरे भोपाल–नगरे स्थिते कुशाभाऊठाकरेसभागारे स्व–सहायता–समूहानां आजीविका–अभियान–क्षमतावर्धन–कार्यशालायाः शुभारम्भं करिष्यति। आजीविका–अभियानस्य मुख्य–कार्यपालिका–अधिका
मुख्यमंत्री डॉ. यादव


भोपालनगरम्, २५ फरवरीमासः (हि.स.)। मध्यप्रदेशस्य मुख्यमन्त्री डॉ.मोहनयादव: अद्य बुधवासरे भोपाल–नगरे स्थिते कुशाभाऊठाकरेसभागारे स्व–सहायता–समूहानां आजीविका–अभियान–क्षमतावर्धन–कार्यशालायाः शुभारम्भं करिष्यति।

आजीविका–अभियानस्य मुख्य–कार्यपालिका–अधिकारिणी हर्षिका सिंह: अवदत् यत्— अस्याः कार्यशालायाः उद्देश्यं मध्यप्रदेश–राज्य–ग्रामीण–आजीविका–अभियानस्य अन्तर्गतं गठितानां स्व–सहायता–समूह–सदस्यानां विपणन–क्षेत्रे क्षमतावर्धनाय प्रशिक्षण–प्रदानम् अस्ति। अनेन समूह–सदस्यानां उत्पाद–विक्रयाय राष्ट्र–स्तरीयः वृहद्–विपणम् उपलब्धं भविष्यति। कार्यक्रमे पंचायत–ग्रामीण–विकास–मन्त्री प्रह्लादसिंहपटेलः तथा राज्य–मन्त्री राधा सिंह: उपस्थितौ भविष्यत:।

सा अवदत् यत्— स्व–सहायता–समूहैः उत्पादितानां वस्तूनां जनसामान्यं प्रति प्रेषणाय ई–मार्केट्–पटलम् उत्तमा व्यवस्था अस्ति। अनेन उत्पादानां प्रचार–प्रसारः तथा विक्रयः सुलभो भविष्यति। कार्यक्रमस्य मुख्योद्देश्यं स्व–सहायता–समूह–सदस्यानां उत्पादानां विपणन–व्यवस्थां सुदृढीकृत्य विपण–संयोजनं करणीयम्। अस्मिन्नेव क्रमे उत्पादानां ई–विपणेन संयोजनाय Amazon–पटले ऑन–बोर्डिङ् कृत्वा विपणन–व्यापकतां वर्धयितुं प्रयासः क्रियते।

हर्षिका सिंह: पुनरपि अवदत् यत्— समूह–उत्पादानां विपणन–प्रक्रियां अधिकं व्यापकं कर्तुं तथा ई–वाणिज्य–मञ्चान् उपलब्धीकर्तुं आजीविका–उत्पादाः Amazon–पटले ऑन–बोर्ड् क्रियन्ते। एवमेव लोकव्यापीकरणाय तथा डिजिटल–मञ्च–उपलब्ध्यै अद्य संस्थाभिः सह अभियानेन अनुबन्धाः (एम्–ओ–यू) क्रियन्ते। एतेषु प्रमुखतया India Post, Amazon–सहेली, ITC, Access Development, Buddha Foundation, TRIF तथा Site Saver इत्यादयः संस्थाः सन्ति। एतैः सहकार्येण समूहानां तथा कृषक–उत्पादक–निर्माणिनां उद्यमिता–प्रशिक्षणं, उत्पाद–लॉजिस्टिक्–समर्थनं, ग्रामीण–उद्यम–प्रचारः, पोषण–स्वास्थ्य–सहयोगः, दिव्याङ्गजनानां विशेष–सहायता च प्रदीयते।

तया सूचितं यत्— कार्यक्रमे स्व–सहायता–समूहानां कार्यकर्त्र्य: सक्रिय–सहभागिता करिष्यते। सहभागी–समूह–सदस्यानां क्षमतावर्धनं कृत्वा उत्पाद–ऑन–बोर्डिङ्–प्रक्रियायां सहयोगोऽपि प्रदास्यते। अनेन नकद–रहित–आदानप्रदानस्य प्रोत्साहनं भविष्यति। अभियानस्य एतेन प्रयासेन डिजिटल–माध्यमैः समूह–उत्पादानां वृहद्–विपणन–प्राप्तिः वर्धिष्यते, येन समूह–सदस्यानां डिजिटल–सशक्तिकरणं तथा आय–वृद्धये बहवः अवसराः सुलभाः भविष्यन्ति।

अस्य कार्यक्रमस्य अन्तर्गतं अभियानेन सञ्चालितानां समुदाय–प्रबन्धित–प्रशिक्षण–केन्द्राणां (सीएमटीसी) प्रबन्धन–पटलस्य लोकार्पणं, होली–हेम्परस्य विमोचनं, ग्वालियर–आजीविका–मार्ट-इत्यस्य वर्चुअल–शुभारम्भः, जबलपुर–विमानपत्तने अवसर–योजनायाः अन्तर्गतं आउटलेट्–शुभारम्भः, आगर–मालवा, मुरैना तथा छतरपुर–जनपदेषु जनपद–स्तरीय–होली–मेलापकानां वर्चुअल–उद्घाटनं, नूतन–आजीविका–एक्सप्रेस–यानानां शुभारम्भः, तथा मिशनेन निर्मितस्य प्राकृतिक–कृषि–प्रशिक्षण–आदर्शस्य विमोचनं च भविष्यति।

राज्य–ग्रामीण–आजीविका–अभियानस्य अन्तर्गतं प्राकृतिक–जैविक–पद्धतीनां प्रोत्साहनं कृत्वा स्व–सहायता–समूहैः विविधाः आजीविका–गतिविधयः सञ्चाल्यन्ते। पर्यावरण–हितं दृष्ट्वा अस्मिन् होली–पर्वणि विशेषतया प्राकृतिक–रागा:, पूजन–सामग्री, गौ–काष्ठम्, गोमय–निर्मित–उत्पादाः, धूप–वर्तिकाः, विविधाः मिष्टान्न–प्रकाराः, मिलेट्–आधारित–लावणिकम्, शीतलपेयम्, वस्त्राणि च समूह–भगिनिभिः निर्मितानि सन्ति। एतानि सर्वाणि उत्पादानि २१ फरवरीमासतः भोपाल–हाट्–आजीविका–मार्ट-इत्यत्र उपलब्धाः सन्ति। २८ फरवरीमासतः ०१ मार्चमास २०२६ पर्यन्तं आयोजिते द्विदिवसीये होली–मेलापके, तथा विविधेषु संभागीय–जनपद–स्तरीय–होली–मेलापकेषु, जनपदेषु आजीविका–रूरल्–मार्ट-इत्यत्र च अपि एतानि उत्पादानि उपलब्धानि भविष्यन्ति।

हिन्दुस्थान समाचार / अंशु गुप्ता