Enter your Email Address to subscribe to our newsletters


अनूपपुरजनपदम्, २६ फरवरीमासः (हि.स.)। दुहितारः ईश्वरस्य अपूर्व-रत्नत्वेन सन्ति। पुत्राः भाग्येन जायन्ते, दुहितारः तु परम–सौभाग्येन जन्म प्राप्नुवन्ति। अद्य पुष्पराजगढस्य पवित्रायां भूमौ १८८ नव–दम्पत्योः विवाह–समारोहे सहभागं कर्तुं स्वस्य महद्भाग्यम् इति कथयन्ती हिमाद्री सिंह अवदत्। हिन्दू–परम्परायां बहवः दान–विधयः निर्दिष्टाः सन्ति, किन्तु तेषु सर्वेषु कन्यादानं सर्वोच्चं संस्कार–रूपेण प्रतिष्ठितम् इति सा प्रतिपादितवती।
एतद् वक्तव्यम् सा गुरुवासरे जनपद–पञ्चायत–पुष्पराजगढे स्थिते क्रीडा–प्रांगणे आयोजितं मुख्यमंत्री–कन्या–विवाह–समारोहं सम्बोधयन्ती अवदत्। अस्मिन् अवसरे सा दुहितॄणां मातृ–पितॄन् शुभाशयैः अभिनन्द्य, अस्य पुण्य–कार्यस्य हेतु शुभकामना: अपि दत्तवती।
सांसदः अवदत् यत् नरेंद्रमोदिन: तथा डॉ.मोहनयादवस्य नेतृत्वे जन्मतः मृत्युपर्यन्तं विविधाः जन–कल्याणकारी–योजनाः सञ्चालिताः सन्ति। सर्वकारः अत्यन्तं संवेदनशीलः अस्ति तथा समाजस्य सर्वेषां वर्गाणां प्रत्येकं सर्वाङ्गीण–विकासाय प्रतिबद्धः वर्तते। आर्थिकरूपेण दुर्बल–कुटुम्बानां कृते मुख्यमंत्री–कन्या–विवाह–योजना सञ्चालिता अस्ति, येन दुहितॄणां विवाहः सम्मानपूर्वकं सम्पद्यते तथा ताः सुखमयं जीवनं यापयितुं शक्नुवन्ति। अपि च जनपदस्य जन–प्रतिनिधयः जनपद–विकासाय सततं प्रयत्नशीलाः सन्ति, क्षेत्रस्य सर्वाङ्गीण–विकासः सर्वोच्च–प्राथमिकतां प्राप्नोति इति सा अवदत्।
द्वयोः कुटुम्बयोः बन्धनं कुर्वन्ति दुहितारः — विधायकः फुन्देलाल–सिंहः
पुष्पराजगढ़स्य विधायकः फुंदेलाल-सिंह-मार्को अवदत् यत् मुख्यमंत्री–कन्या–विवाह–योजनाया: अन्तर्गतं परिणय–सूत्रे बद्धानि युगलानि समाजे पारिवारिक–एकतायाः तथा सांस्कृतिक–मूल्यानां प्रतीकानि सन्ति। दुहितारः स्नेह–संस्कार–सूत्रेण द्वयोः कुटुम्बयोः संयोजनं कुर्वन्ति इति तेन निर्दिष्टम्। प्रत्येकं मातुः पितुः अभिलाषा भवति यत् तस्याः पुत्र्याः विवाहः आनन्देन, उत्साहेन, गरिमया च सम्पन्नः भवेत्, अयं समारोहः तस्य भावस्य सजीवं उदाहरणम् इति सः अवदत्।
तेन नव–विवाहित–वर–वधूभ्यः शुभाशयाः प्रदत्ताः तथा धर्म–नीति–कर्तव्य–पालनेन, परस्पर–सम्बोधनेन, सहयोगेन, सम्मानपूर्वकं च जीवन–यापनं कर्तुं प्रेरणा दत्ता। अद्य नव–संकल्पस्य दिवसः अस्ति। मातरं नर्मदां साक्षिणीं कृत्वा वैवाहिक–जीवनस्य मंगलारम्भं कुर्वन्तु, सन्ततिभ्य: उत्तमां शिक्षां ददतु, कुटुम्बे ज्येष्ठान् च सम्मानयन्तु इति तेन उक्तम्। जनजाति–बहुल–पुष्पराजगढे एतादृशस्य भव्य–आयोजनस्य सम्पन्नता क्षेत्राय गौरव–सौभाग्य–सूचिका इति अपि स: अवदत्।
मुख्यमंत्री–कन्या–विवाह–समारोहः सामाजिक–समरसतायाः अद्वितीयः संगमः — जिला–पञ्चायत–अध्यक्षः
जिला–पञ्चायत–अध्यक्षा प्रीति-रमेश-सिंह: अवदत् यत् मुख्यमंत्री–कन्या–विवाह–समारोहः सामाजिक–समरसतायाः अद्वितीयः संगमः अस्ति। अनेन आयोजनेन समाजस्य विविधाः वर्गाः एक–सूत्रे बद्धाः भवन्ति तथा पारस्परिक–सहयोग–सौहार्द–भावना सुदृढा भवति। परिणय–सूत्रे बद्धानि युगलानि जीवनपर्यन्तं परस्पर–सम्मानेन, विश्वासेन, सामञ्जस्येन च सर्वाभि: परिस्थितिभि: सह जीवन–यापनं कुर्वन्तु इति सा अवदत्। शासनस्य एषा महत्त्वाकाङ्क्षिणी जन–हितकारी–योजना सामाजिक–आर्थिक–दृष्ट्या दुर्बल–वर्गस्य सशक्तीकरणे महत्त्वपूर्णां भूमिकां निर्वहति इति अपि सा निर्दिष्टवती।
१८८ युगलानि परिणय–सूत्रे बद्धानि
मुख्यमंत्री–कन्या–विवाह–समारोहस्य अन्तर्गतं अद्य वैदिक–मन्त्र–उच्चारणेन सह १८८ युगलानि परिणय–सूत्रे बद्धानि। धार्मिक–परम्पराभि:, पारम्परिक–विधि–विधानेन च सम्पन्ने अस्मिन् सामूहिक–विवाह–समारोहे सर्वत्र उत्साह–उल्लास–पूर्णं वातावरणं दृष्टम्। कार्यक्रमे हितग्राहिभ्यः सीमा–देवी, माधुरी–सिंह:, हंसवती, रेनू–देवी तथा माया–बनावल: इत्येतेभ्यः प्रतीक–रूपेण ४९ सहस्र–रूप्यकाणां धनाहरणपत्रम् अपि प्रदत्तम्।
हिन्दुस्थान समाचार / अंशु गुप्ता