Enter your Email Address to subscribe to our newsletters

नवदिल्ली, २५ फरवरीमासः (हि.स.)। कटकनगरे स्थिते ऐतिहासिके बाराबती-प्रांगणे क्रीडितस्य प्रथमस्य एडीसीए टी–२० अन्ताराष्ट्रिय-एशिया-कप २०२६ इत्यस्य समापनं बुधवासरे सम्पन्नम्। अत्र अन्तिम-स्पर्धायां भारतस्य बधिर-क्रिकेट-दलेन श्रीलङ्का-दलं षड्-विकेट-त: पराजित्य प्रतियोगिता स्वनाम्नि कृता।
इयं प्रतियोगिता भारतीय-बधिर-क्रिकेट-संघेन (आईडीसीए) आयोजिता आसीत्, यस्य आयोजनाय ओडिशा-राज्यस्य क्रिकेट-एककानां सहयोगः लब्धः। एषा एशिया-कप-स्पर्धाया: प्रथमं संस्करणं आसीत्, तथा च बधिर-क्रिकेटक्रीडाया: इतिहासे महत्त्वपूर्णा उपलब्धिरिति मन्यते।अन्तिम-स्पर्धानन्तरं आयोजिते भव्ये समापन-समारोहे कटक-जनपदस्य जनपदाधिकारी एवं उपायुक्त: दत्तात्रय-भाऊसाहेब-शिन्दे मुख्यातिथिरासीत्, तथा च विशेषातिथिरूपेण पूर्व-अन्ताराष्ट्रियः क्रिकेट-क्रीडक: संजय-राउलः उपस्थितः। ताभ्यां विजेता-उपविजेता-दलाभ्यां ट्रॉफी-प्रदानं कृतम्।
भारत-दलेन स्वस्य अभियानस्य आरम्भः श्रीलङ्का-विरुद्धं चतुर्विकेट-त: विजयेन कृतः। तदनन्तरं नेपाल-विरुद्धं दश-विकेट-त: एकपक्षीयः विजयः प्राप्तः। स्पर्धा-चरणे श्रीलङ्का-दलेन अपि नेपालं षड्-विकेट-त: पराजितम्, तथा च प्रतिलोम-स्पर्धायां नेपाल-विरुद्धं १५७ धावनाङ्कानां विशालः विजयः अभवत्।
भारत-दलेन श्रीलङ्का-विरुद्धं रोमहर्षक-स्पर्धायां एकेन धावनाङ्केन विजयः प्राप्तः, तथा च नेपाल-विरुद्धं नव-विकेट-त: विजयेन अन्तिम-चरणे स्थानं सुनिश्चितम्।अन्तिम-स्पर्धायां भारत-दलेन संयमितं आत्मविश्वासपूर्णं च प्रदर्शनं कृत्वा श्रीलङ्कां षड्-विकेट-त: पराजित्य ऐतिहासिकं पुरस्कारं विजितवान्।
अनेन विजयेन भारतदेश: केवलं प्रथमां एडीसीए टी–२० अन्ताराष्ट्रिय-एशिया-कप-प्रतियोगितां स्वनाम्नि कृतवान् इति न, अपि तु एशियायी-बधिर-क्रिकेटक्रीडायां स्वस्य सुदृढां स्थितिं अपि सिद्धवान्।
हिन्दुस्थान समाचार / अंशु गुप्ता