अग्निवीरनियुक्तये ओनलाइन-आवेदनम् एकअप्रैलतः
रायपुरम्26 फ़रवरीमासः(हि.स.)। भारतीयथलसेनायाः (अग्निवीर) नियुक्तये इच्छुकाभ्यः योग्येभ्यः च युवकेभ्यः १ अप्रैल २०२६ पर्यन्तम् ऑनलाइन आवेदनानि आमन्त्रितानि सन्ति। पुरुषाभ्यर्थिनः जनरल तकनीकी लिपिक स्टोरकीपर ट्रेडमैन इत्यादिषु पदेषु आवेदनं कर्तुं
आर्मी अग्निवीर भर्ती फाइल फाेटाे


रायपुरम्26 फ़रवरीमासः(हि.स.)।

भारतीयथलसेनायाः (अग्निवीर) नियुक्तये इच्छुकाभ्यः योग्येभ्यः च युवकेभ्यः १ अप्रैल २०२६ पर्यन्तम् ऑनलाइन आवेदनानि आमन्त्रितानि सन्ति।

पुरुषाभ्यर्थिनः जनरल तकनीकी लिपिक स्टोरकीपर ट्रेडमैन इत्यादिषु पदेषु आवेदनं कर्तुं शक्नुवन्ति। महिला अभ्यर्थिन्यः सेना पुलिस तथा स्थायी कैडर नर्सिंग असिस्टेंट नर्सिंग असिस्टेंट वेट सिपाही फार्मा इत्यादिषु पदेषु आवेदनं कर्तुं शक्नुवन्ति।

आयुः सीमा १७.५ वर्षात् २२ वर्षपर्यन्तम् निर्धारिता अस्ति तथा आवेदनशुल्कं २५० रूप्यकाणि निर्धारितम् अस्ति।

आवेदनानि www.joinindianarmy.nic.in इति जालपुटे गत्वा कर्तुं शक्यन्ते।

ऑनलाइन कॉमन एंट्रेस एग्जाम १ जूनतः १० जून २०२६ पर्यन्तं भविष्यति इति संभावना अस्ति।

विस्तृतजानकारीर्थं सेना भर्ती कार्यालय नवा रायपुर इत्यस्य दूरभाषसंख्या ०७७१ २९६५२१२ २९६५२१४ तथा जिला रोजगार कार्यालयेन अपि सम्पर्कः कर्तुं शक्यते।

हिन्दुस्थान समाचार