‘सम्मानेन सह वार्धक्यम्’ इति विषये राष्ट्रीय–संगोष्ठी आयोजिता
जयपुरनगरम्, २६ फरवरीमास: (हि.स.)। सामाजिक–न्याय–अधिकारिता–विभागस्य निदेशकः तथा संयुक्त–शासन–सचिवः आशीष–मोदी विशिष्टातिथित्वेन उपस्थितः सन्, विकास–अध्ययन–संस्थाने (आईडीएस) “सम्मानेन सह वार्धक्यम् : भारते उद्भवन्त्यः सामाजिक–आर्थिकाः स्वास्थ्य–च समस्
सेमीनार


जयपुरनगरम्, २६ फरवरीमास: (हि.स.)। सामाजिक–न्याय–अधिकारिता–विभागस्य निदेशकः तथा संयुक्त–शासन–सचिवः आशीष–मोदी विशिष्टातिथित्वेन उपस्थितः सन्, विकास–अध्ययन–संस्थाने (आईडीएस) “सम्मानेन सह वार्धक्यम् : भारते उद्भवन्त्यः सामाजिक–आर्थिकाः स्वास्थ्य–च समस्या:” इति विषये द्विदिवसीया राष्ट्रीय–संगोष्ठी आयोजिता।

स्व–सम्बोधने मोदी अवदत् यत् वरिष्ठ–नागरिकाणां स्वास्थ्य–सुरक्षा, आर्थिक–सुदृढता तथा सामाजिक–सम्मानस्य सुनिश्चितीकरणम् अद्य अत्यावश्यकम् अस्ति। तेन कुटुम्बस्य समाजस्य च सक्रिय–सहभागिता अपि अनिवार्या इति निर्दिष्टम्। एषा संगोष्ठी भारतीय-सामाजिक-विज्ञान-अनुसंधान-परिषद–सहयोगेन आयोजिता। कार्यक्रमे प्रो.वी.एस.व्यास–स्मृति–व्याख्यानस्य चतुर्थं सत्रम् अपि सम्पन्नम्। अस्मिन् अवसरे प्रो.रमेश–के.–अरोडा तथा जवाहरलालनेहरूविश्वविद्यालय–सम्बद्धा प्रो.संघमित्रा–शील–आचार्या विशिष्टातिथिरूपेण उपस्थिते आस्ताम्।

भारतीय-जराविज्ञान-संघस्य अध्यक्षः प्रो.के.एल.शर्मा तथा संस्थानस्य निदेशकः प्रो.संजय–लोढा उद्घाटन–सत्रस्य अध्यक्षतां कृतवन्तौ। संगोष्ठ्यां षट् तकनीकी–सत्राणि आयोजितानि, येषु वृद्धजनैः सम्बद्धाः सामाजिकाः, आर्थिकाः तथा स्वास्थ्य–सम्बद्धाः समस्या: विस्तरेण चर्चिताः।

हिन्दुस्थान समाचार / अंशु गुप्ता