Enter your Email Address to subscribe to our newsletters

नव दिल्ली, 26 फ़रवरीमासः (हि.स.)।
कनाडादेशस्य प्रधानमन्त्रिणः मार्क कार्नी महोदयस्य फेब्रुवारीमासस्य २६ तिथेः आरभ्य मार्चमासस्य ७ तिथिपर्यन्तं भारतदेशं, ऑस्ट्रेलियादेशं, जापानदेशं च प्रति राजकीयदौरा भविष्यति। अस्य भारतदौरे प्रथमं सः मुम्बईनगरं गमिष्यति।
कार्नी-महोदयस्य ओटावास्थितकार्यालयेन प्रदत्ते निवेदने उक्तं यत् सः मार्चमासस्य २ तिथौ देहलीनगर्यां नरेन्द्र मोदी प्रधानमन्त्रिणा सह सम्मेलनं करिष्यति। अस्मिन् सम्मेलने व्यापारः, ऊर्जा, प्रौद्योगिकी तथा कृत्रिमबुद्धिमत्ता, प्रतिभा-संवर्धनं, संस्कृतिः तथा रक्षाक्षेत्रेषु नूतनसहकार्यविषयाः चर्चिताः भविष्यन्ति। एषा यात्रा कनाडा-भारतयोः मध्ये व्यापार-प्रौद्योगिकी-ऊर्जा-रक्षाक्षेत्रेषु नूतनसाझेदारीनाम् अभिवृद्धये महत्त्वपूर्णं पदं मन्यते।
भारतदौरारम्भात् पूर्वमेव कनाडादेशतः उक्तं यत् कनाडादेशे हिंसात्मकापराधेषु भारतस्य किमपि योगदानं नास्ति। Toronto Star नाम्नः समाचारपत्रस्य वार्तानुसारं कनाडादेशस्य वरिष्ठाधिकारी बुधवासरे पत्रकारसम्मेलने एतद् अवदत्। तैः उक्तं यत् ओटावा-नवदेहल्योः सम्बन्धाः दृढाः सन्ति, तथा तादृशी क्रिया अधुना न प्रवर्तते इति ते विश्वसन्ति।
उल्लेखनीयम् अस्ति यत् वर्षे २०२३ तमे कनाडा-भारतयोः सम्बन्धाः अत्यन्तं विकृताः आसन्, यदा कनाडादेशस्य तत्कालीनप्रधानमन्त्री जस्टिन ट्रूडो जूनमासे २०२३ तमे खालिस्तानसम्बद्धनेता हरदीप सिंह निज्जर हत्याकाण्डे भारतीयसरकारीयप्रतिनिधीनां संलिप्ततायाः आरोपं कृतवान्। भारतदेशेन तद् आरोपं निराधारं निरस्तं च घोषितम्।
अस्य परिणामरूपेण उभयदेशयोः व्यापारसम्झौतचर्चाः स्थगिताः अभवन्, राजनयिकसम्बन्धाः दुर्बलिताः, परस्परं कियन्तः राजनयिकाः अपि निष्कासिताः। अक्टोबरमासे २०२३ तमे भारतदेशेन ओटावास्थितराजदूतः संजयवर्मा अन्ये च पञ्च अधिकारी प्रत्याहूताः। तदनन्तरं भारतदेशेन तत्कालीनकार्यवाहक-उच्चायुक्तः स्टीवर्ट-व्हीलर सहिताः षट् कनाडादेशीय-राजनयिकाः अपि निष्कासिताः।
अनन्तरं जस्टिन ट्रूडो महोदयस्य पदत्यागानन्तरं नूतनसरकारेण सह भारतदेशेन सम्बन्धसुधारप्रयत्नाः आरब्धाः। प्रधानमन्त्री नरेन्द्र मोदी जूनमासे २०२५ तमे अल्बर्टाप्रान्ते आयोजिते G7 Summit शिखरसम्मेलने मार्क कार्नी महोदयेन सह मिलित्वा उभयदेशयोः सम्बन्धेषु नूतनां ऊर्जां संचारितवन्तौ।
---------------
हिन्दुस्थान समाचार