रायपुरनगरम् - वीरसावरकरस्य पुण्यतिथौ मुख्यमंत्री श्रीविष्णुदेवः सायः श्रद्धांजलिं अर्पितवान्
रायपुरनगरम्, २६ फरवरीमासः (हि.स.)। मुख्यमंत्री विष्णुदेवः सायः अद्य गुरुवासरे राजधानी-रायपुरस्थिते मुख्यमंत्री–निवासकार्यालये महान् क्रान्तिकारि, प्रखरः राष्ट्रवादी–चिन्तकः तथा स्वाधीनता–सेनानी विनायक: दामोदरः सावरकरः इत्यस्य पुण्यतिथौ तस्य छायाचित
वीर सावरकर की पुण्यतिथि पर मुख्यमंत्री  साय श्रद्धांजलि  देते हुए


रायपुरनगरम्, २६ फरवरीमासः (हि.स.)। मुख्यमंत्री विष्णुदेवः सायः अद्य गुरुवासरे राजधानी-रायपुरस्थिते मुख्यमंत्री–निवासकार्यालये महान् क्रान्तिकारि, प्रखरः राष्ट्रवादी–चिन्तकः तथा स्वाधीनता–सेनानी विनायक: दामोदरः सावरकरः इत्यस्य पुण्यतिथौ तस्य छायाचित्रे पुष्पांजलिं अर्पयित्वा श्रद्धापूर्वकं नमनम् कृतवान्।

अस्मिन अवसरे मुख्यमंत्री सायः उक्तवान् यत् वीरसावरकरः केवलं स्वाधीनता–सेनानी न, अपितु दूरदर्शी–विचारकः, समाजसुधारकः, ओजस्वी–लेखक:, कविः प्रखरः इतिहासकारः चल अपि आसीत्। तेन भारतीय–स्वाधीनता–संग्रामाय नूतनं वैचारिक–ऊर्जा प्रदत्ता, राष्ट्रभक्तेः भावनां जन-जन-पर्यन्तं प्रापणे महत्वपूर्णं योगदानं कृतम्।

मुख्यमंत्री सायः उक्तवान् यत् मातृभूमेः स्वाधीनतायै सावरकरस्य त्यागः, संघर्षः तथा अदम्यसाहसं भारतीय–इतिहासे स्वर्णाक्षरेण अंकितम् अस्ति। कालापानी–कारागृहस्य अमानवीय–यातनासु अपि तस्य राष्ट्र–प्रेम-समर्पणं अटलम् आसीत्। तस्य संपूर्णं जीवनं देशसेवा, आत्मबलं राष्ट्र–गौरवस्य च प्रेरणास्रोतः अस्ति।

सायः एवमपि उक्तवान् यत् वीरसावरकरस्य विचाराः अद्यापि यून: राष्ट्रनिर्माणाय प्रेरयन्ति। अस्माभि: तस्य आदर्शान् आत्मसात्य एकं सशक्तं, समृद्धं तथा आत्मनिर्भरं भारतं निर्मातुं सततं प्रयत्नशीलं भवितव्यम्।

अस्मिन अवसरे छत्तीसगढ–खनिज–विकास–निगमस्य अध्यक्षः सौरभः सिंहः, छत्तीसगढ–राज्य–अक्षय–ऊर्जा–विकास–प्राधिकरणस्य अध्यक्षः भूपेन्द्रः सवन्नी, मुख्यमंत्री–प्रेस–अधिकारी आलोकः सिंहः, रामः गर्गः अन्ये च जनप्रतिनिधयः उपस्थिताः आसन्।

हिन्दुस्थान समाचार / अंशु गुप्ता