Enter your Email Address to subscribe to our newsletters

--आयार्येभ्यः, पुरोहितेभ्यः और बटुकेभ्यश्च जातकों विशाल महाभोगः
--स्वामी चिदानन्द सरस्वत्याः पावन संदेशः ‘‘राष्ट्राद्रामः रामाद्राष्ट्रं च’’
प्रयागराजः, 26 फरवरीमासः (हि.स)। परमार्थ त्रिवेणी पुष्पे, प्रयागराज-नगर्याः दिव्यसंगमतटे भगवतः श्रीजगन्नाथस्य प्राणप्रतिष्ठायाः भव्यं अलौकिकं वैदिकं च अनुष्ठानं अत्यन्तश्रद्धया शास्त्रीयविधिविधानपूर्वकं वेदमन्त्राणां पवित्रोच्चारणेन सह सम्पन्नम्। एषः महोत्सवः सनातनसंस्कृतेः आध्यात्मिकचेतनायाः राष्ट्रीयैकात्म्यस्य च विराटोत्सवरूपेण अभवत्।
गङ्गायमुनयोः अदृश्यसरस्वत्याश्च पावने तटे शङ्खध्वनिघण्टानादहवनगन्धवैदिकऋचानां मधुरगुञ्जनेन देवभूमिः गुञ्जायमाना आसीत्। आचार्यैः पुरोहितैः वेदपाठीबटुकैश्च सम्पन्ना प्राणप्रतिष्ठायाः प्रत्येकक्रिया अतीव सूक्ष्मा शुद्धा शास्त्रसम्मता च आसीत्। अद्य प्रातःकाले सूर्यपूजनानन्तरं भगवतः श्रीजगन्नाथस्य प्रतिमायां प्राणानामावाहने जाते सति वातावरणं “जयजगन्नाथ” इत्युद्घोषेण गुञ्जायमानम् अभवत्।
गुरुवासरे अस्मिन् पावनावसरे जगन्नाथ पुरी-प्रदेशात् आगतैः महाराजैः महाप्रसादः महाभोगश्च निर्मितः। अस्मिन् सन्दर्भे विशालमहाभण्डारस्य आयोजनम् अभवत्। शतशः श्रद्धालवः सन्तः आचार्याः पुरोहिताः बटुकाश्च एकत्र उपविश्य प्रसादं स्वीकृतवन्तः। एषः महोत्सवः सनातनदर्शनस्य अखण्डपरम्परां स्मारयति यां प्राचीनकाले ऋषिमुनयः पोषितवन्तः।
यथा आदि शंकराचार्य-महाभागेन चतुर्दिक्षु चतुर्धाम्नां स्थापना कृत्वा भारतवर्षं आध्यात्मिकैकतासूत्रे बद्धम् तथैव तस्यैव दिव्यभावनायाः पुनर्जीवनं कृत्वा स्वामी चिदानन्द सरस्वती-महाराजेन संगमभूमौ चतुर्धामचेतनायाः साक्षात्सङ्गमः साकारितः। अयं केन्द्रः राष्ट्रैकतासंवाहकरूपेण भविष्यति यः आगामिपीढीनां कृते “राष्ट्रप्रथमं संगच्छध्वं संवदध्वं सं वो मनांसि जानताम्” इति संदेशं प्रसारयिष्यति।
परमार्थ त्रिवेणी पुष्पे निर्मितम् एतद् आध्यात्मिककेन्द्रं केवलं तीर्थरूपेण न अपि तु समग्रभारतस्य सांस्कृतिकात्मनः प्रतीकरूपेण विराजते। अत्र आगच्छन्तः श्रद्धालवः चतुर्धाम्नां तथोत्तराखण्डस्य पावनधाम्नां दर्शनानुभवं च एकस्मिन् एव स्थले प्राप्स्यन्ति। ते संगमतटे एव समस्तधाम्नां पुण्यलाभं सम्पादयितुं शक्नुवन्ति।
संगमस्य पावनरेतसि सम्पन्नम् एतद् आयोजनं आगामिपीढीनां प्रेरणास्रोतः भविष्यति। यत् दर्शयति यदा आस्था संगठनं च सह आगच्छतः तदा संस्कृति पुनर्जागरति राष्ट्रं सशक्तं भवति मानवता आलोकिता भवति च। भगवतः श्रीजगन्नाथस्य एषा प्राणप्रतिष्ठा सनातनचेतनायाः नवजागरणस्य शङ्खनादः अस्ति यः प्रत्येकस्य हृदये श्रद्धाशक्तिशान्तीनां संचारं कृत्वा समग्रविश्वं “वसुधैव कुटुम्बकम्” इति मार्गं दर्शयति।
विनोदबागरोडिया रजतबागरोडिया उपासनाबागरोडिया च समग्रबागरोडियाकुटुम्बेन सह आभा बागरोडिया चैरिटेबल ट्रस्ट-संस्थायाः सौजन्येन एषः दिव्योत्सवः सम्पन्नः।
माध्यमप्रभारी अवदत् यत् भगवतः श्रीजगन्नाथस्य प्राणप्रतिष्ठानुष्ठानं विशालमहाभोगभण्डारं च सन्तानां पावनसान्निध्ये सम्पन्नम्, यथा हरिद्वारस्थित भगीरथी आश्रम-संस्थायाः स्वामी ईश्वरदासः, रायबरेलीस्थित आश्रमस्य स्वामी ज्योतिर्मयानन्दसरस्वती, परमार्थ आश्रम-संस्थायाः स्वामी धर्मात्मानन्दसरस्वती, गोरखपुर मठ-संस्थायाः स्वामी शुक्रायनाथः, मठ श्री बाघम्बरी गद्दी मन्दिर-स्थात् श्रीबडेहनुमानमन्दिरात् स्वामी शिवागिरिः, स्वामी रजनीशपुरी, स्वामी महेन्द्रपुरी, त्रिवेणीशरणमहाराजः, वेणीमाधवः, राजारामदासः, फलाहारीआश्रमस्य प्रतिनिधयः च अन्ये बहवः सन्तः आशीर्वादं प्रदत्तवन्तः।
अस्यां शुभसन्ध्यायां प्रसिद्धोद्यमिनः समाजसेविनः च राधेश्यामगोयनकः अतुलसुल्तानिया राधेश्यामअग्रवालः, पूर्वमुख्यसचिवः दुर्गा शंकर मिश्रा, रूपाग्रुप्स्, कुञ्जबिहारीअग्रवालः दिनेशशाहरा, आयुक्तः विमलकुमारदुबे इत्यादयः विशिष्टातिथयः उपस्थिताः आसन्। परमार्थ त्रिवेणी पुष्पे संगमतटे प्रयागराज भगवतः श्रीजगन्नाथस्य प्राणप्रतिष्ठानुष्ठानं विधिवत् सम्पन्नम्।
---------------
हिन्दुस्थान समाचार