सेवा संकल्प सप्ताहान्तर्गते ‘किशोरिणां सशक्तिकरण’ कार्यक्रमोऽद्य
गुवाहाटी, 26 फरवरीमासः (हि.स.)। सेवासंकल्पसप्ताहस्य अन्तर्गतं “किशोरीणां सशक्तीकरणम्” इति विषये एकः कार्यक्रमः आयोज्यते। अयं कार्यक्रमः असम लोक भवनस्य उपक्रमेण, महिला तथा असम बाल विकास विभागेन यूनिसेफ संस्थया च सहकार्येण आयोजितः अस्ति। कार्यक्रम
सेवा संकल्प सप्ताहान्तर्गते ‘किशोरिणां सशक्तिकरण’ कार्यक्रमोऽद्य


गुवाहाटी, 26 फरवरीमासः (हि.स.)।

सेवासंकल्पसप्ताहस्य अन्तर्गतं “किशोरीणां सशक्तीकरणम्” इति विषये एकः कार्यक्रमः आयोज्यते। अयं कार्यक्रमः असम लोक भवनस्य उपक्रमेण, महिला तथा असम बाल विकास विभागेन यूनिसेफ संस्थया च सहकार्येण आयोजितः अस्ति।

कार्यक्रमस्य आयोजनम् असम राज्यस्य खानापाड़ा स्थिते प्रशासनिक स्टाफ कॉलेज इति संस्थायां भविष्यति। अस्मिन् शुभावसरे असम राज्यपालः लक्ष्मणप्रसाद आचार्य महोदयस्य गरिमामयी उपस्थिति भविष्यति।

अस्य कार्यक्रमस्य उद्देश्यं राज्ये किशोरीणां शिक्षा स्वास्थ्य पोषण तथा समग्रविकाससम्बद्धानां पहलानां सुदृढीकरणम् अस्ति।

हिन्दुस्थान समाचार