Enter your Email Address to subscribe to our newsletters

उज्जैनम्, 26 फ़रवरीमासः (हि.स.)
मध्यप्रदेशे उज्जयिन्यां स्थिते ज्योतिर्लिङ्गे भगवान् महाकालेश्वरमन्दिरे सोमवासरे २ मार्चदिनाङ्के प्राचीनपरम्परानुसारं सायंआरत्याः अनन्तरं होलिकादहनं विधास्यते। तथैव ३ मार्चदिनाङ्के धुलण्डीपर्व आचरिष्यते। एतां सूचनां मन्दिरप्रशासकः प्रथमकौशिकः अदात्।
तेन उक्तं यत् महाकालेश्वरभगवतः सायंआरत्यां सर्वप्रथमं बाबामहाकालेश्वराय हर्बलगुलालं परम्परानुसारं शर्करामाला च समर्प्यते। सायंआरत्याः अनन्तरं महाकालेश्वरमन्दिरप्राङ्गणे ओंकारेश्वरमन्दिरस्य सम्मुखे होलिकायाः विधिवत्पूजनार्चनानन्तरं होलिकादहनं क्रियते।
३ मार्चदिनाङ्के धुलण्डीदिने प्रातः ४ वादने भस्मारत्यां सर्वप्रथमं भगवान् महाकालेश्वराय मन्दिरस्य पूजारिभिः पुरोहितैः च हर्बलगुलालं समर्प्यते।
४ मार्चतः आरत्याः समयेषु परिवर्तनं भविष्यति। परम्परानुसारं चैत्रकृष्णप्रतिपदातः आश्विनपूर्णिमापर्यन्तं ज्योतिर्लिङ्गमहाकालेश्वरस्य आरत्याः समयपरिवर्तनं भवति।
प्रथमभस्मारती प्रातः ४ वादनात् ६ वादनपर्यन्तम्।
द्वितीयदद्योडकारती प्रातः ७ वादनात् ७:४५ वादनपर्यन्तम्।
तृतीयभोगारती प्रातः १० वादनात् १०:४५ वादनपर्यन्तम्।
चतुर्थसन्ध्यापूजनम् सायं ५ वादनात् ५:४५ वादनपर्यन्तम्।
पञ्चमसन्ध्यारती सायं ७ वादनात् ७:४५ वादनपर्यन्तम्।
शयनारती रात्रौ १०:३० वादनात् ११ वादनपर्यन्तम्।
उपर्युक्तरीत्या भस्मारती सन्ध्यापूजनं शयनारती च निर्धारितसमये एव भविष्यन्ति।
८ मार्चदिनाङ्के रंगपञ्चमीपर्व आचरिष्यते। अस्मिन् अवसरे परम्परानुसारं बाबामहाकालस्य ध्वजचलसमारोहः निष्पाद्यते।
३ मार्च मङ्गलवासरे फाल्गुनशुक्लपूर्णिमायां चन्द्रग्रहणकारणात् मन्दिरस्य पूजापद्धतौ परिवर्तनं भविष्यति। सायं ६:३२ वादनात् ६:४६ वादनपर्यन्तं चतुर्दशमिनिटपरिमितं ग्रहणं भविष्यति। तस्य वेदकालः प्रातः सूर्योदयात् एव आरभ्यते। वेदकालकारणात् प्रातः दद्योडकारत्यां भोगारत्यां च भगवान् केवलं शर्कराभोगं समर्प्यते। ग्रहणसमाप्तेः अनन्तरं मन्दिरे शुद्धिकरणं कृत्वा भगवानः स्नानपूजनं सम्पन्नं कृत्वा भोगं समर्प्य सन्ध्यारती सम्पन्ना भविष्यति।
---------------
हिन्दुस्थान समाचार