Enter your Email Address to subscribe to our newsletters

नवदिल्ली, 26 फरवरीमासः (हि.स.)।
मार्क कार्नी महोदयः २७ फरवरीतः २ मार्चपर्यन्तं भारतदेशस्य यात्रां करिष्यति। द्विपक्षीयसम्बन्धान् सुदृढीकर्तुं नूतनसहकार्यस्य सम्भावनाः अन्वेष्टुं च एषा तस्य भारतस्य प्रथमा आधिकारिकयात्रा अस्ति।
विदेशमन्त्रालयस्य सूचनानुसारं कार्नी महोदयः प्रथमं मुम्बई नगरं प्राप्स्यति। आगामिद्विदिने सः अत्र विविधेषु व्यावसायिककार्यक्रमेषु सहभागं करिष्यति। तदनन्तरं भारतकनाडादेशयोः मुख्यकार्यकारीअधिकारीणां उद्योगवित्तविशेषज्ञानां नवोन्मेषकर्तॄणां शिक्षकेभ्यः च तथा भारतस्थितकनाडीयपेंशननिधिप्रतिनिधिभ्यः सह संवादं करिष्यति।
प्रधानमन्त्री कार्नी १ मार्चदिनाङ्के नूतनदिल्ली नगरे आगमिष्यति। २ मार्चदिनाङ्के उभौ शीर्षनेतारौ हैदराबादहाउस इत्यत्र प्रतिनिधिमण्डलस्तरीयवार्तालापं करिष्यतः। उभौ नेतारौ भारतकनाडादेशयोः रणनीतिकसहकारितासम्बद्धेषु विविधेषु क्षेत्रेषु अद्यावधि प्राप्तां प्रगतिं पुनरावलोकयिष्यतः। एषा प्रगति कनानास्किस जून २०२५ तथा जोहान्सबर्ग नवम्बर २०२५ मध्ये सम्पन्नयोः पूर्वबैठकयोः आधारेण अस्ति।
ते व्यापारनिवेशऊर्जामहत्त्वपूर्णखनिजकृषिक्षेत्रशिक्षाअनुसन्धाननवोन्मेषादिषु प्रमुखस्तम्भेषु सहयोगं अधिकं सुदृढीकर्तुं चर्चां करिष्यतः। उभौ नेतारौ क्षेत्रीयवैश्विकविकासविषये अपि स्वविचारान् आदानप्रदानं करिष्यतः।
अनन्तरं उभौ नेतारौ भारतकनाडा मुख्यकार्यकारीअधिकारीमञ्चं सम्बोधयिष्यतः, यः उभयदेशयोः व्यापारसम्बन्धानां नूतनदिशां निर्धारयिष्यति।
एषा आगामिनी गोष्ठी भारतकनाडादेशयोः मध्ये विश्वासस्य पुनर्स्थापनाय दीर्घकालिकसाझेदारीमार्गचित्रस्य निर्माणाय च महत्त्वपूर्णं कार्यं करिष्यति।
---------------
हिन्दुस्थान समाचार