असम राज्ये एआईएस-140 वीएलटीडी मॉनिटरिंगकेंद्रस्य उद्घाटनम्
गुवाहाटी, 26 फरवरीमासः (हि.स.)। असमराज्ये एआइएस १४० वाहन स्थान अनुयोजन यन्त्र निरीक्षण केन्द्रं तथा पृष्ठतन्त्र व्यवस्था अद्य सायंकाले गुवाहाटी नगरे कटाबाड़ी स्थिते अन्तरराज्य बस टर्मिनलस्य द्वितीयतले उद्घाटितं भविष्यति। अस्य कार्यक्रमस्य उद्घाट
असम राज्ये एआईएस-140 वीएलटीडी मॉनिटरिंगकेंद्रस्य उद्घाटनम्


गुवाहाटी, 26 फरवरीमासः (हि.स.)।

असमराज्ये एआइएस १४० वाहन स्थान अनुयोजन यन्त्र निरीक्षण केन्द्रं तथा पृष्ठतन्त्र व्यवस्था अद्य सायंकाले गुवाहाटी नगरे कटाबाड़ी स्थिते अन्तरराज्य बस टर्मिनलस्य द्वितीयतले उद्घाटितं भविष्यति।

अस्य कार्यक्रमस्य उद्घाटनं असम सरकारस्य परिवहन तथा बोडोलैण्ड कल्याण मन्त्री चरण बोड़ो करिष्यति। अस्मिन् अवसरे गुवाहाटी पश्चिम क्षेत्रस्य विधायकः तथा एमट्रान अध्यक्षः रमेंद्र नारायण कलिता अपि उपस्थितः भविष्यति।

निर्भया रूपरेखायाः अन्तर्गतं स्थापितं एतत् निरीक्षण केन्द्रं राज्ये सार्वजनिक परिवहन वाहनेषु यथार्थकालीन निरीक्षणं सुदृढं करिष्यति तथा महिलानां सुरक्षा सुनिश्चितीकर्तुं महत्त्वपूर्णं पदं भविष्यति। अस्याः केन्द्रीकृत पृष्ठतन्त्र व्यवस्थायाः माध्यमेन आपत्कालीन प्रतिक्रिया तन्त्रं अधिकं प्रभावीकरणीयं भविष्यति।

अधिकारिणां कथनानुसारम् एषा पहल तकनीकाधारित समाधानस्य माध्यमेन असमराज्ये सुरक्षित सुव्यवस्थित सार्वजनिक परिवहन व्यवस्थां सुदृढीकरणाय महत्त्वपूर्णः प्रयासः अस्ति।

हिन्दुस्थान समाचार