Enter your Email Address to subscribe to our newsletters

राँचीनगरम्, २६ फरवरीमासः (हि.स.)। पैरालंपिक-कमिटी-ऑफ-झारखंड–प्रदेशस्य अध्यक्षः तथा पूर्व–आई.ए.एस. अधिकारी जटाशंकर–चौधरी मोरहाबादी–समीपे शुक्रवासरे पैरालंपिक-कमिटी-ऑफ-झारखंड–इत्यस्य नव–कार्यालयस्य उद्घाटनं कृतवान्। अस्मिन् अवसरे पूजाऽर्चनानन्तरं समितेः अध्यक्षः जटाशंकर–चौधरी कार्यालय–उपलब्ध्यर्थं झारखण्ड–राज्य–सर्वकाराय कृतज्ञतां व्यक्तवान्। सः अवदत् यत् वर्तमानः राज्य–सर्वकारः दिव्याङ्गजनानां हितेषु जागरूकः अस्ति तथा तेषां उत्थानाय निरन्तरं कार्यं करोति।
जटाशंकर–चौधरी अपि अवदत् यत् दिव्याङ्ग–क्रीडकैः स्व–प्रतिभा प्रकाशयितव्या; तान् समुचितं मञ्चं प्रति नेतुं समितेः दायित्वम् अस्ति। प्रतिभावानां क्रीडकाणां कृते उत्तम–प्रशिक्षण–सुविधा–उपलब्ध्यर्थं प्रयत्नाः निरन्तरं क्रियमाणाः सन्ति। निकट–भविष्ये झारखण्डस्य पैरालंपिक–दलम् राष्ट्रीय–स्तरे उत्तमं प्रदर्शनं करिष्यतीति सः विश्वासं व्यक्तवान्।अस्मिन् अवसरे समितेः सचिवः कुमारगौरव:, उपाध्यक्षः शुभाशीष: झा, सचिवः हीरालाल: टुडू इत्येतै: सह बहवः क्रीडाप्रेमिणः गणमान्याः च उपस्थिताः आसन्।
हिन्दुस्थान समाचार / अंशु गुप्ता