Enter your Email Address to subscribe to our newsletters

राँचीनगरम्, २६ फरवरीमासः (हि.स.) राँची–बिरसा–मुंडा–विमानपत्तने गुरुवासरे सायंकाले राष्ट्रपति-द्रौपदी-मुर्मू–इत्यस्यै झारखण्ड–प्रवासस्य समाप्त्यर्थं औपचारिक–विदायं प्रदत्तम्। अस्मिन् अवसरे राज्यपालः संतोष–कुमार–गंगवारः मुख्यमन्त्री हेमन्त–सोरेन च राष्ट्रपतिं शिष्टाचार–साक्षात्कारेण सम्मानपूर्वकं विदायं दत्तवन्तौ। विमानपत्तने प्रशासनिक–अधिकारिणः अन्ये जनप्रतिनिधयः अपि उपस्थिताः आसन्।
हिन्दुस्थान समाचार / अंशु गुप्ता