राञ्चीनगरस्य सुपुत्रः एआइ–इम्पैक्ट–सम्मिट्–मञ्चे उत्तरदायी–कृत्रिम–मेधा–विमर्शाय राष्ट्रीयं स्वरं दत्तवान्
राञ्चीनगरम्, २६ फरवरीमास: (हि.स.)। राञ्चीनगरात् प्रस्थानं कृत्वा राष्ट्रीय–मञ्चे स्वकीयं परिचयं निर्माय मेजर-विनीतकुमार: साइबर पीस–संस्थायाः संस्थापकः इण्डिया-एआइ-इम्पैक्ट-सम्मिट् २०२६–इत्यत्र महत्त्वपूर्णां भूमिकां निर्वहणं कृतवान्। एतत् शिखर–सम्म
फाइल फोटो विनीत कुमार सहित अन्य


राञ्चीनगरम्, २६ फरवरीमास: (हि.स.)। राञ्चीनगरात् प्रस्थानं कृत्वा राष्ट्रीय–मञ्चे स्वकीयं परिचयं निर्माय मेजर-विनीतकुमार: साइबर पीस–संस्थायाः संस्थापकः इण्डिया-एआइ-इम्पैक्ट-सम्मिट् २०२६–इत्यत्र महत्त्वपूर्णां भूमिकां निर्वहणं कृतवान्। एतत् शिखर–सम्मेलनं भारतमण्डपम्–स्थले, नव दिल्ली–नगरे आयोजितम् आसीत्।

राञ्चीनिवासी मेजर-विनीतकुमारः “रिस्पॉन्सिबल् एआइ ऐट स्केल—गवर्नन्स, इण्टेग्रिटी-एण्ड-साइबर-रेड-लाइन्सफ़ॉर-चेञ्जिङ्-वर्ल्ड्” इति विषयकस्य महत्त्वपूर्णस्य सत्रस्य संचालनं नेतृत्वं च अकरोत्। साइबर-पीस–संस्थया आयोजितेऽस्मिन् सत्रे शासनात्, प्राविधिक–निर्माणिभ्यः, शिक्षाजगतः तथा नागरीक–समाजात् आगताः वरिष्ठ–विशेषज्ञाः सहभागिन: अभवन्; भारतदेश: स्वकीयं एआइ–परिसंस्थां कथं उत्तरदायित्वेन अग्रे नयेत्—इति विषये विस्तीर्णा चर्चा अभवत्।

गुरुवासरे राञ्ची–नगरे संवादे मेजर-विनीतकुमारः अवदत् यत्— एआइ केवलं शीघ्र–वर्धमान–प्रविधेः प्रश्नः नास्ति, अपि तु अस्माभिः दैनन्दिन–जीवने तस्य विवेकपूर्ण–स्वीकारस्य परीक्षाऽस्ति। सः स्पष्टं न्यवेदयत् यत् वास्तविकं आह्वानं एआइ–द्रुत–स्वीकारे न, किन्तु तस्य सुरक्षित–न्याय्य–उत्तरदायी–प्रयोगे एवास्ति।

विश्वासस्य, सुरक्षायाः, उत्तरदायित्वस्य च महत्त्वं प्रतिपादयन् सः अवदत्— एआइ जनान्, संस्थाः, लोकतन्त्रं च सबलीकर्तव्यम्, न तु दुर्बलीकर्तव्यम्। अस्य लक्ष्यस्य सिद्ध्यर्थं शासन–उद्योग–शैक्षणिक–संस्थाः तथा नागरीक–समाजः एतेषां मध्ये दृढ–सहयोगस्य आवश्यकता इति सः बलं दत्तवान्, येन सुरक्षिताः समावेशिनश्च एआइ–प्रणाल्यः निर्मातुं शक्यन्ते।

सः अवदत् यत् अस्य सत्रस्य माध्यमेन साइबर-पीस–संस्थया राष्ट्रिय–एआइ–मञ्चे ज्ञान–सहभागरूपेण स्वकीया भूमिका दृढीकृता। चर्चाकाले सः डीप–फ़ेक्स, अन्तर्जाल–वञ्चना, साइबर–आक्रमणानि, एआइ–प्रणालीषु विद्यमानाः तथोदयमानाः च संकटाः—एतेषां विषये विस्तरेण विवृणोत्। सर्वे वक्तारः एकमत्या स्वीकृतवन्तः यत् एआइ–प्रणालीषु सुरक्षा तथा सत्यता आद्यतः एव समावेशनीयौ, न तु पश्चात् आरोपणीयौ। अपि च, एआइ–विषये केवलं प्रविधिः एव न, अपि तु जनाः संस्थाश्च अपि सिद्धाः कर्तव्याः—इति अपि प्रतिपन्नम्।

अन्ते सः अवदत् यत् साइबर–जागरूकता, डिजिटल–हाइजीन, तथा विशाल–स्तरे एआइ–प्रणालीनां सुरक्षित–संचालनाय कुशल–व्यावसायिकानां निर्माणं—एते अपि अत्यावश्यकाः। राञ्ची–नगरे उत्पन्नाः क्षेत्रीय–प्रतिभाः राष्ट्रीय–वैश्विक–स्तरे साइबर–सुरक्षा तथा उत्तरदायी–एआइ–विषयेषु स्वकीयं प्रभावं स्थापयन्ति—इति भारतस्य डिजिटल–भविष्य–निर्माणे तेषां महत्त्वपूर्णा भूमिका दृश्यते।

हिन्दुस्थान समाचार / अंशु गुप्ता