राष्ट्रपति-द्रौपदी-मुर्मु कदमा–क्षेत्रे श्री–जगन्नाथ–आध्यात्मिक–सांस्कृतिक–केन्द्रस्य आधारशिलां स्थापितवती
श्री–जगन्नाथ–आध्यात्मिक–केन्द्रं सामाजिक–सांस्कृतिक–संवादस्य प्रमुखं केन्द्रं भविष्यति : राष्ट्रपति: पूर्वी–सिंहभूम–जनपदः, २६ फरवरीमासः (हि.स.) राष्ट्रपति-द्रौपदी-मुर्मु गुरुवासरे जमशेदपुर–नगरे कदमा–स्थिते मरीन–ड्राइव–क्षेत्रे श्री–जगन्नाथ–आध्यात्
माननीय राष्ट्रपति श्रीमती द्रौपदी मुर्मु ने श्री जगन्नाथ आध्यात्मिक एवं सांस्कृतिक केंद्र के निर्माण हेतु शिलापट्ट का अनावरण


माननीय राष्ट्रपति श्रीमती द्रौपदी मुर्मु ने श्री जगन्नाथ आध्यात्मिक एवं सांस्कृतिक केंद्र के निर्माण हेतु शिलापट्ट का अनावरण


श्री–जगन्नाथ–आध्यात्मिक–केन्द्रं सामाजिक–सांस्कृतिक–संवादस्य प्रमुखं केन्द्रं भविष्यति : राष्ट्रपति:

पूर्वी–सिंहभूम–जनपदः, २६ फरवरीमासः (हि.स.) राष्ट्रपति-द्रौपदी-मुर्मु गुरुवासरे जमशेदपुर–नगरे कदमा–स्थिते मरीन–ड्राइव–क्षेत्रे श्री–जगन्नाथ–आध्यात्मिक–सांस्कृतिक–केन्द्रस्य निर्माणार्थं आधारशिलां स्थापितवती। वैदिक–मन्त्र–उच्चारणेन पारम्परिकै: विधिभि: च सह आयोजितं भूमिपूजन–समारोहं गरिमामय–रूपेण सम्पन्नम्।

अस्मिन् अवसरे राष्ट्रपति-द्रौपदी-मुर्मु अवदत्— भारतस्य सांस्कृतिक–परम्परा केवलं आस्थाया: विषयः न, अपि तु अस्माकं जीवन–पद्धतेः तथा सामाजिक–समरसताया: आधारशिला अस्ति। श्री–जगन्नाथ–परम्परा लोक–कल्याणस्य, सेवायाः तथा समावेशितायाः सन्देशं ददाति इति तया प्रतिपादितम्।

तादृशानि आध्यात्मिक–सांस्कृतिक–केन्द्राणि समाजस्य संयोजनाय, नूतन–वंशं स्व–मूलैः सह परिचायितुं, मानवीय–मूल्यानां सुदृढीकरणाय च महत्त्वपूर्णां भूमिकां वहन्ति इति सा अवदत्। राष्ट्रपति: विश्वासं व्यक्तवती यत् एतत् केन्द्रं न केवलं धार्मिक–क्रियाकलापानां स्थलम् भविष्यति, अपि तु सामाजिक–शैक्षणिक–सांस्कृतिक–संवादस्य अपि प्रमुखं केन्द्रं भविष्यति।

कार्यक्रमे राज्यपालः संतोष-कुमार-गंगवार:, मुख्यमन्त्री हेमन्त: सोरेन:, केन्द्रीय–मन्त्री धर्मेंद्रप्रधान:, सांसदः बिद्युतबरन-महतो, विधायकौ सरयू राय: तथा पूर्णिमा साहू इत्येतै: सह अनेके गणमान्याः उपस्थिताः आसन्।

हिन्दुस्थान समाचार / अंशु गुप्ता