वीर सावरकरस्य पुण्यतिथौ लोक सभाध्यक्षं समेत्य केंद्रीय मंत्रिणोऽददुश्श्रद्धांजलिम्
नवदिल्ली, 26 फ़रवरीमासः (हि.स.)। महान् क्रान्तिकारिणः प्रखरराष्ट्रवादीचिन्तकस्य विनायकदामोदरस्य सावरकरस्य पुण्यतिथौ लोकसभाध्यक्षः ओमबिर्ला, केन्द्रीयमन्त्रिणः विभिन्नराज्यानां नेतारश्च तम् भारतीयस्वातन्त्र्यसंग्रामस्य अद्वितीययोद्धारं निर्दिश्य श
राष्ट्रवादी चिंतक विनायक दामोदर सावरकर (फाइल फोटो)


नवदिल्ली, 26 फ़रवरीमासः (हि.स.)।

महान् क्रान्तिकारिणः प्रखरराष्ट्रवादीचिन्तकस्य विनायकदामोदरस्य सावरकरस्य पुण्यतिथौ लोकसभाध्यक्षः ओमबिर्ला, केन्द्रीयमन्त्रिणः विभिन्नराज्यानां नेतारश्च तम् भारतीयस्वातन्त्र्यसंग्रामस्य अद्वितीययोद्धारं निर्दिश्य श्रद्धाञ्जलिम् अर्पितवन्तः।

लोकसभाध्यक्षः ओमबिर्ला स्वातन्त्र्यवीरं सावरकरं भारतीयस्वाधीनताआन्दोलने स्वसर्वस्वं समर्पितवन्तं महान् क्रान्तिकारिणं मन्यमानः प्रणामम् अकरोत्।

केन्द्रीयगृहसहकारितामन्त्री अमितशाह अवदत् यत् सावरकरः स्वाधीनताआन्दोलने तेषु नायकेषु आसीत् ये आङ्ग्लशासनात् केवलं राजनैतिकस्वातन्त्र्याय न, अपि तु सांस्कृतिकस्वाधीनतायै अपि संघर्षम् अकुर्वन्। सः अपि अवदत् यत् सावरकरः स्वक्रान्तिकारीविचारैः स्वातन्त्र्यआन्दोलने वैचारिकाधारं प्रदत्तवान्, देशात् आरभ्य आङ्ग्लदेशपर्यन्तं स्वसाहसिकप्रयत्नैः युवानः प्रेरितवान्।

केन्द्रीयसडकपरिवहनराजमार्गमन्त्री नितिनगडकरी तम् प्रखरराष्ट्रप्रेम्णः अतुलनीयप्रतिभायाश्च अद्वितीयसंगमं निर्दिश्य स्मृतिदिने विनम्राभिवादनम् अकरोत्।

रक्षामन्त्री राजनाथसिंह सावरकरस्य अदम्यसाहसं अद्वितीयत्यागं राष्ट्रे प्रति अटूटसमर्पणं च भारतीयस्वातन्त्र्यसंग्रामस्य गौरवपूर्णम् अध्यायम् इति वर्णितवान्। सः उक्तवान् यत् तस्य ओजस्विनः विचाराः अद्यापि कोटिशः देशवासिनः प्रेरयन्ति।

केन्द्रीयमन्त्री किरेनरिजिजू सावरकरं त्यागतपस्तर्काणां प्रतिमूर्तिम् उक्त्वा अवदत् यत् तस्य संघर्षः सांस्कृतिकराष्ट्रवादस्य परिकल्पना च अद्यापि राष्ट्रे प्रति कर्तव्यबोधं आत्मगौरवं च प्रेरयति।

भारतीयजनतापक्षस्य राष्ट्रियाध्यक्षः नितिननवीन अवदत् यत् लण्डनस्थितात् इण्डियाहाउसतः आरभ्य सेल्युलरकारागृहस्य कालकोठरीपर्यन्तं सावरकरस्य जीवनं राष्ट्रचेतनायाः पुनर्जागरणस्य गाथा अस्ति।

उत्तरप्रदेशस्य मुख्यमन्त्री योगीआदित्यनाथ तम् ओजस्विनं क्रान्तिकारिणं तेजस्विनं चिन्तकं च उक्त्वा अवदत् यत् राष्ट्रस्य स्वातन्त्र्याय सांस्कृतिकअखण्डतायै च तस्य त्यागः भारतस्य इतिहासे स्वर्णाक्षरैः लिखितः भविष्यति।

दिल्लीमुख्यमन्त्री रेखागुप्ता अवदत् यत् वीरसावरकरस्य समग्रं जीवनं राष्ट्रे प्रति अनन्यनिष्ठायाः अमरगाथा अस्ति।

---------------

हिन्दुस्थान समाचार