Enter your Email Address to subscribe to our newsletters

भोपालम्, 26 फरवरीमासः (हि.स.)।
मध्य प्रदेश विज्ञान एवं प्रौद्योगिकी परिषद (मैपकास्ट) संस्थया अद्य गुरुवासरात् आरभ्य त्रिदिवसीयः एकचत्वारिंशत्तमः मध्यप्रदेश-युवा-वैज्ञानिक-सम्मेलनः भोपाल नगरे आयोजितः। अस्य प्रमुखोद्देश्यः प्रदेशस्य युवा-वैज्ञानिकान् तथा शोधार्थिनः विज्ञान-प्रौद्योगिकी-क्षेत्रे अनुसंधान-नवोन्मेषयोः प्रति प्रोत्साहयितुम् अस्ति।
जनसम्पर्क-अधिकारी जूही-श्रीवास्तव महोदया अवदत् यत् अस्मिन् सम्मेलने प्रदेशस्य त्रिशताधिकाः युवा-शोधार्थिनः विज्ञान-प्रौद्योगिक्योः अष्टादश-विषयेषु स्व-शोधपत्राणि प्रस्तोष्यन्ति। एतानि शोधपत्राणि पञ्चाशदधिकैः विषय-विशेषज्ञैः वैज्ञानिकैः च मूल्याङ्कितानि भविष्यन्ति। उत्कृष्ट-शोधपत्रेभ्यः युवा-वैज्ञानिक-पुरस्कारः, प्रशस्तिपत्रं तथा फैलोशिप् अपि प्रदास्यते।
प्रथम-पुरस्कारस्य कृते पञ्चविंशतिसहस्र-रूप्यकाणि, द्वितीय-पुरस्कारस्य कृते विंशतिसहस्र-रूप्यकाणि, तृतीय-पुरस्कारस्य कृते पञ्चदशसहस्र-रूप्यकाणि निर्धारितानि सन्ति। सर्वे प्रतिभागिनः राष्ट्रिय-स्तरीय-संस्थासु तथा प्रयोगशालासु त्रिमासात् षण्मासपर्यन्तं अनुसंधान-कार्यं कौशल-विकासं च कर्तुं प्रतिमासं विंशतिसहस्र-रूप्यकाणां फैलोशिपं प्राप्स्यन्ति।
एकचत्वारिंशत्तमः मध्यप्रदेश-युवा-वैज्ञानिक-सम्मेलनः २६ तथा २७ फेब्रुवारी-दिने मध्य प्रदेश विज्ञान भवन स्थले आयोजितः भविष्यति। तस्य विजेतॄणां पुरस्कार-वितरण-समारोहः २८ फेब्रुवारी-दिने रवीन्द्र भवन, भोपाल-नगरे, राष्ट्रीय विज्ञान दिवस अवसरस्य निमित्तम् आयोजितः भविष्यति।
प्रदेशस्य युव-वैज्ञानिकानां अनुसंधान-क्षेत्रे प्रोत्साहनार्थं तथा योग्य-मञ्च-प्रदानार्थं मध्यप्रदेश-विज्ञान-प्रौद्योगिकी-परिषद् प्रतिवर्षं युवा-वैज्ञानिक-काङ्ग्रेसस्य आयोजनं करोति।
---------------
हिन्दुस्थान समाचार