Enter your Email Address to subscribe to our newsletters





जमशेदपुरनगरम्, २६ फरवरीमासः (हि.स.)। झारखण्ड–राजधानी–रांचीतः गुरुवासरे जमशेदपुरं आगताय :भारतस्य राष्ट्रपतिन: द्रौपदीमुर्मु-इत्यस्या: सोनारी–विमानपत्तने भव्यं स्वागतं कृतम्। तस्य आगमनकाले झारखण्ड–राज्यपालः संतोषकुमारः गंगवारः, मुख्यमंत्री हेमन्तः सोरेनः च सहिताः अनेके वरिष्ठाः अधिकारिण: पुष्पगुच्छैः ताम् अभिनन्दितवन्तः। राष्ट्रपति–प्रवासाय जनपद–प्रशासनं सुरक्षासंस्था: च पूर्वमेव विस्तृतां व्यवस्थां कृतवन्तः।
जमशेदपुर–प्रवासकाले राष्ट्रपतिन: प्रथम: कार्यक्रम: कदमा–स्थिते अनिल–सुर–पथे प्रस्ताविते भगवान्-जगन्नाथ–मन्दिरेण सह स्पिरिचुअल–केन्द्र–निर्माणस्थले आयोजित:। अत्र तया विधिवत् भूमिपूजनं कृत्वा मन्दिर–निर्माणकार्यस्य शुभारम्भः कृतः। पुरी–धामात् आगता: पुरोहिताः वैदिक–मंत्रोच्चारेण संपूर्णं अनुष्ठानं सम्पन्नम् अकुर्वन्। राष्ट्रपति-मुर्मू सम्पूर्णकाले श्रद्धा–तन्मयतया पूजायाम् भागं ग्रहीतवती।
राष्ट्रपतिमहोदया स्वसंबोधनं कुर्वन्ती धार्मिक–आध्यात्मिक–स्थलानि समाजे सांस्कृतिक–एकताया: तथा नैतिक–मूल्यानां संवर्धनस्य केन्द्राणि इति उक्तवती। स मन्दिर–निर्माणे आरएसबी–समूहस्य वाइस–चेयरमैन एवं प्रबंध–निदेशकः एस.के.बेहरा तथा तस्य दलस्य प्रशंसां कृतवती। एस.के.बेहरा अतिथीनां स्वागतं कुर्वन् उक्तवान् यत् एतत् स्पिरिचुअल–केन्द्रं केवलं धार्मिक–आस्थायाः केन्द्रं न स्यात्, अपितु सामाजिक–सांस्कृतिक–गतिविधिनां अपि प्रमुखं स्थलम् भविष्यति।
अस्मिन् अवसरे राज्यपालः संतोषकुमारः गंगवारः, मुख्यमंत्री हेमन्तः सोरेनः, जमशेदपुरस्य सांसदः विद्युत् वरणः महतो, सिंहभूम–संसदिका जोबा माझी, उपयुक्तः कर्णः सत्यार्थी च, टाटा–स्टील–प्रबंध–निदेशकः टी.वी.नरेन्द्रेण सह अनेके जनप्रतिनिधयः उद्योग–क्षेत्र–प्रतिनिधयः च उपस्थिताः आसन्। कार्यक्रमे नगरस्य गणमान्याः नागरिकाः तथा विविध–सामाजिक–संघटनस्य सदस्याः अपि उपस्थिताः आसन्।
भूमिपूजन–कार्यक्रमानन्तरं राष्ट्रपतिन: अग्रिम: कार्यक्रम टाटा–मणिपाल–महाविद्यालये निर्धारितः, यत्र सा शैक्षणिक–गतिविधीनां कार्यक्रमे भागं ग्रहीतवती। तस्या: प्रवासाय नगरस्य प्रमुखमार्गेषु सुरक्षा–व्यवस्था दृढतरा आयोजिता आसीत्।
निर्धारितानुसारं राष्ट्रपति अपराह्णे प्रायः ३:५० वादने सोनारी–विमानपत्तनतः रांची–नगरं प्रत्यागतवती। तस्या: प्रवासस्य कारणेन नगरे उत्साहपूर्णं वातावरणं आसीत्, जनैः च एषः जमशेदपुराय गौरवपूर्णः क्षणः इति व्यक्तः।
हिन्दुस्थान समाचार / अंशु गुप्ता