Enter your Email Address to subscribe to our newsletters



भगवान जगन्नाथः न आयातः , अस्माभिः प्रतीक्षा करणीया स्यात्- राष्ट्रपतिः द्रौपदी मुर्मूः
जमशेदपुरम्, 26 फरवरीमासः(हि.स.)। 'श्रीश्रीजगन्नाथमन्दिरस्य जमशेदपुरे प्रतिष्ठापनस्य अयं समुचितः कालः अस्ति। भगवान् जगन्नाथः शीघ्रं न आगच्छति, तस्य आगमनाय प्रतीक्षा कर्तव्या भवति। अद्य आरभ्य भगवान् जगन्नाथः जमशेदपुरबिहारी अभवत् इति भारतस्य राष्ट्रपतिः द्रौपदी मुर्मूः उक्तवती।
गुरौ दिने कदमा स्थिते मरीन ड्राइव स्थले श्रीश्रीजगन्नाथमन्दिरस्य तथा जगन्नाथ आध्यात्मिक धर्मार्थ केन्द्रस्य आधारशिलारोपणसमये सा एतानि वचनानि उक्तवती। भूमिपूजनानन्तरं आयोजितसभायां सा भावपूर्णेन स्वरेण अवदत् यत् भगवान् जगन्नाथः अधुना जमशेदपुरे विराजमानः भविष्यति तथा अद्य आरभ्य भगवान् जगन्नाथः जमशेदपुरबिहारी अभवत्।
सा रांची नगरे स्थापितस्य जगन्नाथ मंदिर उल्लेखं कृत्वा अवदत् यत् तत्र मन्दिरनिर्माणानन्तरं भगवान् निड़ाचढ़ बिहारी इति ख्यातः अभवत् तथा अधुना समग्रे झारखण्डप्रदेशे व्यापकतः पूज्यते। जमशेदपुरे मन्दिरनिर्माणेन तस्य अनुग्रहः अस्मिन् नगरे अपि वर्षिष्यते इति सा विश्वासं व्यक्तवती।
सा विश्वासं प्रकटितवती यत् एषः आध्यात्मिकधर्मार्थकेन्द्रः न केवलं धार्मिकआस्थायाः केन्द्रं भविष्यति, अपितु समाजसेवायाः सांस्कृतिकचेतनायाः च महत्त्वपूर्णं स्थलम् अपि सिद्ध्येत्।
कार्यक्रमस्थले राष्ट्रपति द्रौपदी मुर्मू आगत्य समग्रपरिसरे उत्साहपूर्णं वातावरणं अभवत्। वैदिकमन्त्रउच्चारणेन विधिविधानपूर्वकं भूमिपूजनं सम्पन्नम् तथा मन्दिरनिर्माणस्य औपचारिकआरम्भः कृतः।
स्वीयसम्बोधने सा भगवान् जगन्नाथस्य महिमानं वर्णयन्ती अवदत् यत् सः सर्वसुलभः सर्वप्रियः च भगवान् अस्ति, यस्य लोकप्रियता समग्रे विश्वे अस्ति। सा रथयात्रापरम्परायाः अपि उल्लेखं कृत्वा अवदत् यत् यदा रथयात्रा निर्गच्छति तदा भगवान् भक्तजनानां मध्ये झूलेन, गानेन, उत्सवेन सह आगच्छति। तस्य आगमनं प्रतीक्षायाः भक्तेः च प्रतीकः अस्ति।अस्मिन् अवसरे केन्द्रीय मन्त्री धर्मेंद्र प्रधान, झारखण्डस्य राज्यपालः संतोष गंगवार तथा मुख्यमंत्री हेमंत सोरेन अपि उपस्थिताः आसन्। कार्यक्रमे पूर्वकेन्द्रीय मन्त्री अर्जुन मुंडा, सांसद विद्युत वरण महतो, विधायक सरयू राय इत्यादयः बहवः गणमान्याः अतिथयः अपि उपस्थिताः आसन्।---------------
हिन्दुस्थान समाचार