Enter your Email Address to subscribe to our newsletters

नवदिल्ली, 26 फरवरीमासः (हि.स.)।रेलमन्त्री अश्विनी वैष्णवो गुरौ दिने भारतीयरेलवे आधुनिकीकरणदिशि द्वौ महत्त्वपूर्णौ सुधारौ घोषितवान्। तयोः अन्तर्गतं रेलटेकनीत्यानुसारं समर्पितरेलटेकपटलस्य शुभारम्भः तथा पूर्णतः कृत्रिमबुद्धिमत्त्याधारित डिजिटल रेलवे क्लेम्स ट्रिब्यूनल प्रणाली आरम्भः च समाविष्टौ।
रेलभवने आयोजिते संवाददातृसम्मेलने सः अवदत् यत् रेलटेकनीतेः उद्देश्यः स्टार्टअप्स नवोन्मेषकाः उद्योगाः शोधसंस्थानानि च व्यवस्थितपारदर्शितया रेलवे इत्यनेन सह संयोजयितुम् अस्ति। सः उक्तवान् यत् स्टार्टअप्स शोधकर्तारश्च प्रत्यक्षतया रेलवे इत्यनेन सह सम्बद्धाः स्युः इति ध्येयेन एषा नीति आरब्धा। सम्पूर्णा प्रक्रिया आद्यन्तं डिजिटलरूपेण भविष्यति तथा अद्य आरभ्य रेलटेकपोर्टलः प्रवर्तते। नूतनप्रौद्योगिकीनां परीक्षणे अस्माकं विशेषः केन्द्रितभावः अस्ति।
देशव्यापिनः स्टार्टअप्स प्रौद्योगिकसमाधानविकासकर्तारश्च रेलटेकपोर्टले सम्मिलन्तु इति तेन आह्वानं कृतम्। अयं पोर्टलः समस्याणां डिजिटलसमाधानस्वीकारमञ्चः भविष्यति। तेन नरेंद्र मोदी दृष्टिकोणस्य उल्लेखः कृतः यत् यदा विज्ञानम् नवोन्मेषश्च व्यापकस्तरे संयुज्येते तथा प्रौद्योगिकी परिवर्तनं वेगयति तदा महान् उपलब्धीनां आधारः स्थाप्यते।
रेलटेकनीत्यान्तर्गतं प्रस्तावस्वीकृतिप्रक्रिया सरलिकृता। अधुना नवोन्मेषकाः एकस्मिन्नेव चरणे विस्तृतप्रस्तावं समर्पयितुं शक्नुवन्ति। प्रोटोटाइपनिर्माणपरीक्षणयोः अधिकतमअनुदानराशिः द्विगुणीकृता तथा विस्तारानुदानं त्रिगुणाधिकं वर्धितम्। एषा प्रक्रिया उपयोक्तृसौहार्द्रयुक्ता भविष्यति येन व्यापकभागीदारी सुनिश्चितीक्रियते।
नीतिनिर्माणसमये रक्षा धातुकर्म दूरसञ्चार जैवप्रौद्योगिकीक्षेत्रेषु प्रचलिताः स्टार्टअपनीतयः अध्ययनं कृतम्। रक्षा क्षेत्रस्य आईडेक्स इत्यादिपहलाभ्यः अन्येषां सफलनीतिभ्यश्च शिक्षां गृहीत्वा रेलवे सरलां निर्बाधां च नीतिं निर्मितवती। वर्ष 2026 कृते द्विपञ्चाशत्सप्ताहेषु द्विपञ्चाशत्सुधाराः कर्तुं संकल्पः कृतः।
प्रारम्भिकप्रौद्योगिकचुनौतिषु कृत्रिमबुद्धिमत्त्याधारित एलिफेंट इंट्रूजन डिटेक्शन प्रणाली कोचेषु कृत्रिमबुद्धिमत्त्याधारित अग्निपहचानप्रणाली ड्रोनाधारित भग्नरेलपहचान प्रणाली रेलतनावनिगराणीप्रणाली पार्सलवानेषु संवेदकाधारित भारगणनायन्त्रं कोचेषु सौरपटलस्थापनम् कुहूकाले अवरोधपहचानप्रणाली च अन्तर्भवन्ति। केचन स्टार्टअप्स कोचेषु विद्युत्तारनिगराणी तथा धारा मानकविश्लेषणे अपि कार्यरताः सन्ति। अतिरिक्तं कृत्रिमबुद्धिमत्त्याधारित पेंशनविवादनिस्तारणप्रणाली अपि विकसित्यते।
द्वितीयसुधाररूपेण मन्त्री रेलवे क्लेम्स ट्रिब्यूनल इत्यस्य पूर्णतः डिजिटल तथा कृत्रिमबुद्धिमत्तिसक्षमव्यवस्थायाः घोषणां कृतवान्। एतत् नागरिककेन्द्रितपहलारूपेण निर्दिश्य सः अवदत् यत् अनेन दावानां निपटानप्रक्रिया शीघ्रा पारदर्शिनी प्रभावी च भविष्यति। देशव्यापिन्यः त्रयोविंशतिः आरसीटीपीठाः डिजिटलरूपेण संयोजिताः भविष्यन्ति।
नव्या ई आरसीटी प्रणाली अन्तर्गतं चतुर्विंशतिघण्टासु ई फाइलिंग सुविधा उपलब्धा भविष्यति येन देशस्य कस्मिंश्चिदपि भागे स्थितः व्यक्ति ऑनलाइनरूपेण तथ्यं अंकितुं शक्नोति। अस्याम् केस इन्फॉर्मेशन प्रणाली डॉक्यूमेंट मैनेजमेंट प्रणाली स्वचालितसावधानसूचना इत्यादयः उपलभ्यन्ते। आवेदकाः स्वमामलानां प्रगतिं वास्तविककाले ज्ञातुं शक्नुवन्ति तथा सर्वे आदेशाः दस्तावेजाश्च सुरक्षितडिजिटलरूपेण उपलब्धाः भविष्यन्ति।
मन्त्री अवदत् यत् कृत्रिमबुद्धिमत्त्युपयोगेन प्रकरणनिस्तारणसमयः न्यूनः भविष्यति पारदर्शिता च वर्धिष्यते। अनेन पीडिताः तेषां परिवाराः अधिवक्तारः सामान्यनागरिकाश्च शीघ्रविश्वसनीयन्यायप्रक्रियायाः लाभं प्राप्स्यन्ति।
-----------
हिन्दुस्थान समाचार