Enter your Email Address to subscribe to our newsletters

शिमला, 26 फ़रवरीमासः (हि.स.)।
डॉक्टर हेडगेवार स्मारक समिति द्वारा बुधवासरे मॉल रोड शिमला स्थले रक्तदानशिविरम् आयोजितम्। इदंशिविरं राष्ट्रिय स्वयंसेवक संघस्य शतवार्षिकीसमापनस्य उपलक्ष्ये आयोजितः, यस्मिन् सामान्यनागरिकाः युवानः स्वयंसेवकाः च उत्साहेन सहभागित्वं कृतवन्तः।
कार्यक्रमकाले सेवा समर्पणयोः प्रेरकं वातावरणं दृष्टम्। समाजसेवाभावेन प्रेरिताः युवानः नागरिकाश्च स्वेच्छया रक्तदानं कृत्वा मानवतायै स्वप्रतिबद्धतां प्रदर्शितवन्तः। शिविरे कुलम् अष्टाधिकशतं रक्तएककानि संगृहीतानि, यानि आवश्यकतानुसारं रोगिणां कृते जीवनदायिनि भविष्यन्ति।
आयोजकैः उक्तं यत् संघस्य शताब्दीवर्षे एतादृशैः सेवाकार्यैः समाजे समर्पणसहयोगराष्ट्रनिर्माणभावनाः सुदृढीक्रियन्ते। रक्तदानं महादानम् इति निरूप्य समितेः पदाधिकाऱिणः अवदन् यत् एकं रक्तएककं कस्यचित् जीवनं रक्षितुं शक्नोति, तस्मात् श्रेष्ठतरं मानवसेवाकार्यं नास्ति।
शिविरे स्थानीयनागरिकाः व्यापाऱिणः विभिन्नसामाजिकसङ्गठनानां प्रतिनिधयः अपि सहभागीभूताः। चिकित्सकदलस्य निरीक्षणे रक्तदानस्य सम्यक् व्यवस्था कृता, येन दातृभ्यः कापि असुविधा न अभवत्।
कार्यक्रमस्य अध्यक्षतां शिमलानगरस्य प्रतिष्ठितः चार्टर्ड अकाउंटेंट् राजीव सूदः कृतवान्। समितेः अध्यक्षः अजय सूदः अन्ये पदाधिकाऱिणः सदस्याश्च अस्मिन् अवसरे उपस्थिताः आसन्।
समितिः सर्वेषां रक्तदातॄणां प्रति कृतज्ञतां व्यक्तवती, भविष्ये अपि एतादृशानां जनहितकार्यक्रमाणां आयोजनस्य संकल्पं पुनरुक्तवती। युवभ्यः नियमितरूपेण रक्तदानं कृत्वा समाजे सेवा समर्पणभावनां दृढीकर्तुं आह्वानं कृतम्।
---------------
हिन्दुस्थान समाचार