सिंधिया वैष्णवेन कृतं मेलनं , चंबल पूर्वोत्तरयोः रेलगतसंपृक्ततायां चर्चा
नवदिल्ली, 26 फ़रवरीमासः (हि.स.)। सञ्चार तथा पूर्वोत्तरक्षेत्रविकासमन्त्री ज्योतिरादित्य सिंधिया गुरौ दिने अत्र रेलभवने रेलमन्त्रिणा अश्विनी वैष्णवेन सह मिलितवान्। अस्मिन् समये ग्वालियर गुना चम्बलक्षेत्रं सहितं पूर्वोत्तरभारतस्य रेलसम्पर्कस्य सुदृ
केन्द्रीय संचार एवं पूर्वोत्तर क्षेत्र विकास मंत्री ज्योतिरादित्य सिंधिया केन्द्रीय रेल मंत्री अश्विनी वैष्णव से मुलाकात करते हुए।


नवदिल्ली, 26 फ़रवरीमासः (हि.स.)।

सञ्चार तथा पूर्वोत्तरक्षेत्रविकासमन्त्री ज्योतिरादित्य सिंधिया गुरौ दिने अत्र रेलभवने रेलमन्त्रिणा अश्विनी वैष्णवेन सह मिलितवान्। अस्मिन् समये ग्वालियर गुना चम्बलक्षेत्रं सहितं पूर्वोत्तरभारतस्य रेलसम्पर्कस्य सुदृढीकरणविषये चर्चा अभवत्।

सञ्चारमन्त्रालयेन सूचितं यत् सभायां चम्बलक्षेत्रे प्रमुखयानानां अतिरिक्तविरामाः नूतनयानप्रचालनं तथा नूतनरेलमार्गनिर्माणसम्बद्धाः परियोजनाः इत्यादिषु विषयेषु विचारविमर्शः कृतः। विलम्बितरेलविस्तारयोजनानां शीघ्रगतिप्रदानविषये अपि चर्चा अभवत्।

सिंधिया अवदत् यत् उत्तमरेलसम्पर्केण यात्रिकाणां सुविधा वर्धिष्यते। क्षेत्रीयव्यापारः पर्यटनम् औद्योगिकक्रियाकलापाश्च अपि प्रोत्साहं प्राप्स्यन्ति। तेन पूर्वोत्तरक्षेत्रे रेलसेवानां सुदृढीकरणे विशिष्टं बलं दत्तम्। दुर्गमप्रदेशेषु उत्तमसम्पर्कस्य अवसंरचनाविस्तारस्य च विषये अपि चर्चा कृता।

सः अवदत् यत् पूर्वोत्तरप्रदेशस्य सुदृढसम्पर्कः राष्ट्रियएकात्मतायाः संतुलितविकासस्य च कृते अत्यावश्यकः अस्ति। सिंधिया पुनरपि उक्तवान् यत् नरेंद्र मोदी नेतृत्वे वर्तमानसर्वकारः देशस्य सर्वान् प्रदेशान् आधुनिकावसंरचनया संयोजयितुं प्रतिबद्धा अस्ति। “विकसितभारत 2047” लक्ष्यस्य प्राप्तौ रेलसम्पर्कस्य महत्त्वपूर्णा भूमिका भविष्यति।

-----------

हिन्दुस्थान समाचार