रक्षा राज्य मंत्री उत्तर सिक्किमे ताराम-चू स्टीलसेतोः उद्घाटनम्
मंगनः(सिक्किमः), 26 फरवरीमासः (हि.स.)। रक्षा राज्य मन्त्री संजय सेठ गुरौ दिने उत्तरसिक्किमप्रदेशे चुंगथाङ् लाचेन मार्गखण्डे महत्त्वपूर्णसम्पर्कं पुनर्स्थापयन् नवनिर्मितं ताराम चू इस्पातसेतुम् उद्घाटितवान्। द्विदिवसीय आधिकारिकदौराय सः गुरौ दिने स
Taram chu bridge inauguration


Taram chu bridge inauguration


Taram chu bridge inauguration


मंगनः(सिक्किमः), 26 फरवरीमासः (हि.स.)।

रक्षा राज्य मन्त्री संजय सेठ गुरौ दिने उत्तरसिक्किमप्रदेशे चुंगथाङ् लाचेन मार्गखण्डे महत्त्वपूर्णसम्पर्कं पुनर्स्थापयन् नवनिर्मितं ताराम चू इस्पातसेतुम् उद्घाटितवान्।

द्विदिवसीय आधिकारिकदौराय सः गुरौ दिने सिक्किमराज्यं प्राप्तवान्। प्रथमदिने तेन उत्तरसिक्किमप्रदेशे नवनिर्मितस्य ताराम चू इस्पातसेतोः उद्घाटनं कृतम्। सः हेलीकॉप्टरयाननेन कार्यक्रमस्थलं प्राप्तवान्।

स्वीयसम्बोधने संजयसेठः कठिनभौगोलिकपरिस्थितिषु प्रतिकूलवायुमण्डलीयस्थितिषु च अल्पकाले सेतुनिर्माणं सम्पन्नं कृतवन्तः सीमा सड़क संगठन तथा जनरल रिजर्व इंजीनियर फोर्स कर्मिणः प्रशंसितवान्। तेन सिक्किममुख्यमन्त्री प्रेम सिंह तमांग तथा राज्यसरकारस्य निरन्तरसहयोगाय समन्वयाय च धन्यवादः प्रदत्तः।

रक्षा राज्य मन्त्री अवदत् यत् अयं सेतुः लाचेनप्रदेशस्य समीपवर्तीक्षेत्राणां जनानां सामान्यजीवनस्य पुनर्स्थापनाय साहाय्यकरः भविष्यति तथा संवेदनशीलसीमावर्तीक्षेत्रे रणनीतिकगतागमनं सुदृढं करिष्यति। परियोजनायाः सफलक्रियान्वयने साहाय्यं कृतवन्तं जिल्ला प्रशासनम् अपि तेन प्रशंसितम्। सः आश्वासितवान् यत् नरेंद्र मोदी नेतृत्वे केन्द्रीयसरकारः राज्यस्य विकासलक्ष्यसिद्धये प्रतिबद्धा अस्ति।

पूर्वं क्षेत्रीयविधायकः मन्त्री च साम्डुप लेप्चा उत्तरसिक्किमदौराय बहुप्रतीक्षितसेतोः उद्घाटनाय च रक्षा राज्य मन्त्री प्रति कृतज्ञतां व्यक्तवान्। तेन अक्टूबर 2023 मासे आगतस्य ग्लेशियल लेक आउटबर्स्ट फ्लड इति आपदायाः अनन्तरं जातानां प्राकृतिकविपत्तीनां च कारणेन जनजीवनस्य सम्पर्कव्यवस्थायाः च गम्भीरप्रभावः उल्लेखितः।

राज्यसरकारस्य मुख्यमन्त्रिणः च पक्षतः तेन जीआरईएफ तथा बीआरओ कर्मिणां कठिनपरिस्थितिषु समर्पितसेवायाः प्रशंसा कृता।

उल्लेखनीयम् यत् अतिवृष्टिः आकस्मिकपूरः जून 2024 मासे चक्रवात रेमल इति आपदा तथा मई जून 2025 मासयोः विनाशकारी मेघविस्फोटघटनाः इत्यादिभिः उत्तरसिक्किमप्रदेशस्य आधारभूतसंरचनायाः व्यापकहानिः अभवत्। ताराम चू नदीस्थितः पुरातनसेतुः सहिताः अनेके महत्त्वपूर्णसेतवः अपि वहिताः येन लाचेनप्रदेशस्य सम्पर्कव्यवस्था गभीरतया प्रभाविताभूत् पर्यटनम् आवश्यकवस्तुसम्प्रेषणम् सामरिकक्रियाकलापाश्च बाधिताः।

ताराम चू नदी उपरि निर्मितः चत्वारिशत्पादपरिमितः बेली सस्पेंशन इस्पातसेतुः तथा अष्टाविंशतिकिलोमीटरपरिमितस्य चुंगथाङ् लाचेन मार्गस्य पुनर्स्थापनं आपदानन्तरपुनर्निर्माणप्रयत्नेषु महत्त्वपूर्णा उपलब्धिः मन्यते। उच्चहिमालयीयपरिस्थितीनां भूकम्पसंवेदनशीलतायाः तीव्रजलप्रवाहस्य च विचारं कृत्वा अयं सेतुः दृढः दीर्घकालस्थायी च संरचनारूपेण निर्मितः।

अनेन पुनर्स्थापनेन चुंगथाङ् लाचेनयोः मध्ये जीवनरेखा पुनः स्थापिताभूत् येन नागरिकानां पर्यटकानां च सुगमगतागमनम् आवश्यकवस्तुसम्प्रेषणम् आपदाप्रबन्धनक्षमता राष्ट्रियसुरक्षासम्बद्धा रसदव्यवस्था च सुदृढा अभवत्।

सेतूद्धाटनकार्यक्रमानन्तरं रक्षा राज्य मन्त्री नियोजितसमीक्षासभायै चुंगथाङ् प्रति प्रस्थितवान्।

---------------

हिन्दुस्थान समाचार