चांदनीचतुश्पथि विद्युतस्तंत्राणां भूमिगतीकरणस्य परियोजनानां शुभारंभः
नव दिल्ली, 26 फ़रवरीमासः (हि.स.)। दिल्लीमुख्यमन्त्री रेखा गुप्ता गुरौ दिने चांदनीचतुष्पथि स्थले उपरि स्थितविद्युत्ताराणां भूमिगतकरणपरियोजनायाः शुभारम्भं कृतवती। सा अवदत् यत् अद्य दिल्ली स्वस्य अतीतं प्रणम्य भविष्यदिशि दृढं पदं स्थापितवती। पत्रका
चांदनी चौक में ओवरहेड बिजली के तारों को भूमिगत करने की परियोजना का शुभारंभ  करती मुख्यमंत्री रेखा गुप्ता


नव दिल्ली, 26 फ़रवरीमासः (हि.स.)।

दिल्लीमुख्यमन्त्री रेखा गुप्ता गुरौ दिने चांदनीचतुष्पथि स्थले उपरि स्थितविद्युत्ताराणां भूमिगतकरणपरियोजनायाः शुभारम्भं कृतवती। सा अवदत् यत् अद्य दिल्ली स्वस्य अतीतं प्रणम्य भविष्यदिशि दृढं पदं स्थापितवती।

पत्रकारान् सम्बोधयन्ती मुख्यमन्त्री अवदत् यत् चांदनीचौके दीर्घकालात् प्रवृत्ता उपरि लम्बमानविद्युत्तारसमस्या अधुना समाधानं प्राप्नोति। अस्याः योजनायाः अन्तर्गतं अष्टाविंशतिप्रमुखमार्गेषु प्रायः षोडशशतककोटिरूप्यकव्ययेन भूमिगतविद्युत्तारविन्यासकार्यं प्रारब्धम्। आधारभूतसंरचनायाः उन्नयनाय दुकानदाराणां पथविक्रेतॄणां ग्राहकाणां च समस्यासमाधानाय अपि कार्यं क्रियते इति सा उक्तवती।

मुख्यमन्त्री अवदत् यत् चांदनीचौकः शताब्दिशः व्यापारसंस्कृत्योः जीवन् केन्द्रम् अस्ति। अत्रस्थाः प्रासादाः इतिहासस्य साक्षिणः सन्ति,विथिकाः च अस्माकं धरोहरं धारयन्ति। किन्तु उपरि लम्बमानाः विद्युत्तत्रिकाः अस्य सौन्दर्यम् आवृतवन्तः सुरक्षा दृष्ट्या अपि परिस्थितिरूपाः आसन्। अद्य विद्युत्ताराणां भूमिगतकरणपरियोजनायाः आरम्भः केवलं प्रौद्योगिकपरिवर्तनं न, अपितु धरोहरस्य संरक्षणव्यवस्थितसुन्दरनिर्माणस्य च संकल्पः इति सा उक्तवती।

ततः सा मण्डोलीस्थले बीवाईपीएल संस्थायाः 66 11 केवी जीआईएस ग्रिड उपकेन्द्रस्य तथा शिवालिकद्वारका गोयलाखुर्दस्थयोः बीआरपीएल संस्थायाः चत्वारः उपयोगितास्तरीयबैटरीऊर्जाभण्डारणप्रणालीपरियोजनानां शिलान्यासम् अपि कृतवती। एताभिः पहलाभिः लक्षाधिकपरिवाराणां निर्बाधविद्युत्पूर्तिः सुनिश्चितीक्रियते इति सा अवदत्।

सा पुनः उक्तवती यत् धरोहरसंरक्षणं भविष्यत्सज्जता च एतयोः संतुलनेन दिल्ली अग्रे गच्छति।

अस्मिन् अवसरे भारतीय जनता पार्टी सांसदः रामवीर सिंह बिधूड़ी, दिल्लीशिक्षामन्त्री आशीष सूद, पार्षदा सुमनगुप्ता, जिलाध्यक्षः अरविन्दगर्गश्च उपस्थिताः आसन्।

---------------

हिन्दुस्थान समाचार