मानव जीवनस्य सुरक्षायै सदैव प्रतिबद्धाः भवन्ति रक्षणकर्मिणः - उप महानिरीक्षकः
वाराणसी, 26 फरवरीमासः(हि. स.)। उत्तरप्रदेशस्य वाराणसीनगरे चौकाघाटनाम्नि स्थिते मुख्यालये एनडीआरएफ् संस्थायाः उद्धारकर्मिणां प्रशिक्षणार्थं उपमहानिरीक्षकः मनोजकुमारशर्मा महोदयः महत्त्वपूर्णान् बिन्दून् अवदत्। उपमहानिरीक्षकः मनोजकुमारशर्मा उक्तवान
प्रशिक्षित होते हुए एनडीआरएफ बचावकर्मी


वाराणसी, 26 फरवरीमासः(हि. स.)।

उत्तरप्रदेशस्य वाराणसीनगरे चौकाघाटनाम्नि स्थिते मुख्यालये एनडीआरएफ् संस्थायाः उद्धारकर्मिणां प्रशिक्षणार्थं उपमहानिरीक्षकः मनोजकुमारशर्मा महोदयः महत्त्वपूर्णान् बिन्दून् अवदत्।

उपमहानिरीक्षकः मनोजकुमारशर्मा उक्तवान् यत् वर्षपर्यन्तं आपत्कालीनपरिस्थितीनां भयावहता भवतु अथवा उत्सवानां उल्लासः मानसूनऋतोः तीव्रवृष्टयः भवतु अथवा शिशिरऋतोः कठोरता एनडीआरएफ् उद्धारकर्मिणः स्वस्य शारीरिकमानसिकस्वास्थ्यस्य चिन्तां विना सर्वासु परिस्थितिषु मानवजीवनस्य रक्षणाय सदा समर्पिताः भवन्ति।

उपमहानिरीक्षकः पुनः अवदत् यत् उद्धारकर्मिणां अत्यन्तकठिनां चुनौतीपूर्णां च कार्यप्रणालीं दृष्ट्वा मानसिकस्वास्थ्यकेन्द्रितः जागरूकताकार्यक्रमः आयोजितः अस्ति। अस्य विशेषप्रयत्नस्य उद्देशः उद्धारकर्मिणां व्यावसायिकदक्षतां सुदृढीकरणं व्यक्तित्वविकासस्य प्रोत्साहनं उत्तमतनावप्रबन्धनस्य उपायानां परिचयः तथा तेषां मानसिकस्वास्थ्यस्य सशक्तीकरणं च अस्ति।

कार्यक्रमे मनोवैज्ञानिकः तथा सोशलमीडियाफाउण्डेशनसंस्थायाः निदेशिका डॉ संहिता चौधरी अपि उपस्थितवती। तया उद्धारकर्मिभिः सह संवादः स्थापितः। तया तेषां समस्याः अनुभवाश्च विस्तरेण चर्चिताः तथा कठिनपरिस्थितिषु कार्यं कुर्वद्भिः मानसिकदृढता सकारात्मकचिन्तनम् भावनात्मकसंतुलनस्य पालनम् इत्यादीनां प्रभाविणः उपायाः अपि निरूपिताः।

---------------

हिन्दुस्थान समाचार