Enter your Email Address to subscribe to our newsletters

श्रीनगरनगरम्, २६ फरवरीमासः (हि.स.)। उपराष्ट्रपति: सी.पी.राधाकृष्णन् गुरुवासरे प्रतिष्ठिते डल-सरसि शिकारा-यात्रायाः आनंदं अनुभूतवान् तथा एतत् अनुभवम् श्रीनगरस्य शाश्वताकर्षणम् प्राकृतिक-सौन्दर्यस्य दृश्यं इति विज्ञापितवान्।
उपराष्ट्रपति: राधाकृष्णन् काश्मीर–घाट्याः प्रथमयात्रायै बुधवासरे सायंकाले अत्र आगतवान्। तस्य कार्यक्रमः गुरुवासरे सायंकाले काश्मीर–विश्वविद्यालयस्य २१–तमे दीक्षांतसमारोहे भागं ग्रहीतुम् निश्चित: अस्ति। उपराष्ट्रपति: अद्य डल-सरसि प्रातःकाले यात्रायाम् श्रीनगरस्य शाश्वताकर्षणम्, प्राचीनं जलम् च मनोरमं प्राकृतिकसौन्दर्यम् अनुभूतवान्।
उपराष्ट्रपतिः उक्तवान् यत् सः जम्मू–काश्मीरमध्ये परिवर्तनकारी–परिवर्तनैः, विशेषतः आधारभूतसुव्यवस्थायाः विकासेन उत्तमसंयोजनेन च अतिशयप्रभावितः अस्ति। सः एवमपि उक्तवान् यत् अहं पारिस्थितिकी–पर्यटनस्य प्रवर्धनं कर्तुं, प्राकृतिकपरम्पराया: संरक्षणं कर्तुं, तथा स्थानिकसमुदायानां जीविकायै नूतनान् अवसरान् सर्जितुम् प्रशासनस्य प्रयासानां प्रशंसां करोमि।
हिन्दुस्थान समाचार / अंशु गुप्ता