वीर सावरकरस्य पुण्यतिथौ प्रधानमंत्री मोदी अनमत् , धैर्य और संकल्पयोर्दत्तः संदेशः
नवदिल्ली, 26 फ़रवरीमासः (हि.स.)। प्रधानमन्त्रीः नरेंद्रमोदी गुरुवासरे महान् क्रान्तिकारिणः विनायकदामोदरसारवरकरस्य पुण्यतिथौ तस्मै श्रद्धाञ्जलिम् अर्पितवान्। प्रधानमन्त्री अवदत् यत् भारतमातरः कर्मठसुतस्य वीरसावरकरस्य जीवनात् वयं विपरीतपरिस्थितिषु
प्रधानमंत्री नरेन्द्र मोदी


नवदिल्ली, 26 फ़रवरीमासः (हि.स.)।

प्रधानमन्त्रीः नरेंद्रमोदी गुरुवासरे महान् क्रान्तिकारिणः विनायकदामोदरसारवरकरस्य पुण्यतिथौ तस्मै श्रद्धाञ्जलिम् अर्पितवान्।

प्रधानमन्त्री अवदत् यत् भारतमातरः कर्मठसुतस्य वीरसावरकरस्य जीवनात् वयं विपरीतपरिस्थितिषु अपि स्वसंकल्पे दृढतया स्थितुं प्रेरणां प्राप्नुमः।

स्वस्य सामाजिकमाध्यममञ्चे ‘एक्स’ इति संदेशे सः अलिखत् यत् सावरकरस्य साहसम् संयमः मातृभूमेः प्रति समर्पणभावश्च सदैव देशवासिनां पथप्रदर्शनं करिष्यति।

तेन संस्कृतश्लोकः अपि उद्धृतः—

“धीराः शोकं तरिष्यन्ति लभन्ते सिद्धिमुत्तमाम्।

धीरैः सम्प्राप्यते लक्ष्मीर्धैर्यं सर्वत्र साधनम्॥”

अस्य अर्थः— धैर्यवान् जनः शोकं क्लेशान् च अतिक्रम्य उत्तमां सिद्धिं प्राप्नोति। धैर्येणैव समृद्धिः प्राप्यते। अतः धैर्यं सर्वत्र सर्वकार्येषु सफलतायाः प्रमुखं साधनम् अस्ति।

प्रधानमन्त्री पुनः उक्तवान् यत् वीरसावरकरः देशं दास्यशृङ्खलाभ्यः मोचयितुं स्वजीवनम् अर्पितवान्। तस्य व्यक्तित्वं कृतित्वं च प्रत्येकां पीढीं राष्ट्रसेवायै प्रेरयिष्यति।

---------------

हिन्दुस्थान समाचार