Enter your Email Address to subscribe to our newsletters

राष्ट्रीय-विज्ञान-दिवस: (२८ फरवरीमास:) — विशेषलेख:— योगेशकुमारगोयल:
मानव–जीवनं विज्ञानेन अद्य अतिशयम् सरलम् सुविधाजनकं च कृतम् अस्ति। अद्यतन–काले यूनां विज्ञान–विषये या रुचिः अस्ति, तस्यामेव देशस्य भविष्यं निर्भरति। युवभि: सह समाजस्य प्रत्येकं वर्गस्य हृदय–मस्तिष्कयोः विज्ञान–विषये अधिकाधिकं रुचिं जागरयितुमेव प्रतिवर्षं २८ फरवरी–दिने राष्ट्रीयविज्ञानदिवसः आचर्यते।
अस्य दिवसस्य माध्यमेन बालान् विज्ञानं व्यवसाय–रूपेण स्वीकर्तुं प्रोत्साहितं क्रियते, येन अग्रिमवंश: विज्ञान–क्षेत्रे उल्लेखनीयं योगदानं दद्यात् तथा देशः प्रगतेः मार्गे निरन्तरम् अग्रसरः भवेत्।
वस्तुतः विज्ञान–प्रौद्योगिकी–सञ्चारार्थं राष्ट्रीयविज्ञान एवं प्रौद्योगिकीपरिषद् इत्यनेन १९८६ तमे वर्षे भारत–सर्वकारं प्रति २८ फरवरी–दिनं राष्ट्रीयविज्ञानदिवसत्वेन नामयितुं प्रस्तावः कृतः। सर्वकारेण अनुमोदनानन्तरं १९८७ तमात् वर्षात् आरभ्य प्रतिवर्षं एषः दिवसः भारतीय–विज्ञानस्य महान् उत्सवत्वेन आचर्यते। अयं दिवसः भारतस्य महत: भौतिक–वैज्ञानिकस्य सर सी.वी.रमन् इत्यस्य प्रसिद्ध–आविष्कारं रमन–प्रभावम् स्मारयितुं, विज्ञान–क्षेत्रे भारतस्य यशः विश्वपटलं प्रति प्रकाशयितुं च तस्य स्मृत्यर्थं आचर्यते।
पश्चिम–बङ्गाल–राज्यस्य कोलकाता–नगरे स्थिते इण्डियन एसोसिएशन फॉर द कल्टीवेशन ऑफ साइंस इत्यत्र १९०७ तः १९३३ पर्यन्तं सर-चन्द्रशेखर–वेंकट–रमण: कार्यं कृतवान्। तस्मिन् काले सः भौतिक–विज्ञानस्य अनेकेषु विषयेषु अनुसन्धानं कृतवान्, येषु रमन–प्रभावः (यदा प्रकाशः विविध–वस्तुभिः गच्छति तदा तस्य प्रसरणे यः विशेषः प्रभावः दृश्यते) तस्य महान् सिद्धिः अभवत्। एतत् अन्वेषणं न केवलं विज्ञान–जगति विख्याता अभवत्, अपि तु विश्वेनापि प्रशंसिता। २८ फरवरीमासे १९२८ तमे एतत् अन्वेषणम् लोके प्रकाशिता, ततः सर्वत्र कम्पनं अजनयत्। अस्यैव आविष्काराय १९३० तमे वर्षे भौतिक–विज्ञान–क्षेत्रे जगतः सर्वोच्च–सम्मानं नोबेलपुरस्कारं तस्मै प्रदत्तम्। सः एशिया–महाद्वीपस्य प्रथमः व्यक्तिः अभवत् यस्य एषः गौरवः लब्धः।
नोबेल–पुरस्कार–प्राप्तेः अनन्तरं भारतं प्रत्यागत्य सः अवदत्— “मम सदृशाः बहवः प्रतिभावन्तः जनाः सुविधानाम् अवसराणां च अभावेन स्वप्रतिभां व्यर्थयन्ति; एतेन न केवलं तेषां, अपि तु समग्रस्य भारतवर्षस्यापि हानिः भवति—एतत् वयं निरोद्धुं शक्नुमः।” २०१३ तम-वर्षात् American Chemical Society इत्यनेन रमन–प्रभावः अन्तरराष्ट्रीय–ऐतिहासिक–रासायनिक–लैण्डमार्क–रूपेण नामितः।
राष्ट्रीय विज्ञान दिवसः प्रतिवर्षं निश्चित–विषयेन सह आचर्यते। २०२६ तमे वर्षस्य विषयः अस्ति— “विज्ञाने महिलाः : विकसितं भारतं उत्प्रेरयन्त्यः”। २०२३ तः २०२५ पर्यन्तं क्रमशः “वैश्विक–कल्याणाय वैश्विक–विज्ञानम्”, “विकसित–भारताय स्वदेशी–प्रौद्योगिकी”, तथा “विज्ञान–नवाचारयोः वैश्विक–नेतृत्वाय भारतीय–यूनां सशक्तीकरणम्” इति विषयैः एषः दिवसः आचरितः। २०२२ तमे वर्षे विषयः आसीत्— “सतत–भविष्याय विज्ञान–प्रौद्योगिक्योः एकीकृत–दृष्टिः”, २०२१ तमे वर्षे च— “एस.टी.आई. (विज्ञान–प्रौद्योगिकी–नवाचार) इत्यस्य भविष्यं : शिक्षा–कौशल–कर्मसु प्रभावः”।
राष्ट्रीय विज्ञान दिवसस्य प्रमुखं लक्ष्यं जनान् दैनिक–जीवने वैज्ञानिक–आविष्काराणां महत्त्वेन परिचितान् कर्तुं, वैज्ञानिक–चिन्तनं वहन्ति ये तेषां अवसरान् विस्तर्तुं, तेषां कर्मसु प्रोत्साहनं दातुं च अस्ति। विज्ञान–विकासाय नूतन–प्रौद्योगिकीनां प्रयोगः, विज्ञान–प्रौद्योगिक्योः लोकप्रियता–वर्धनं च अस्य आयोजनस्य अभिप्रायेषु अन्तर्भूतम्। विज्ञानेन एव नूतनाः यन्त्र–प्रणाल्यः आविष्कृताः, येन मानव–जीवनं अत्यन्तं सुकरं कृतम्। रोबोटाः, सङ्गणकाः, अन्तरिक्ष–यात्रा च—एते सर्वे विज्ञानस्यैव फलानि सन्ति। अतः अस्माकं सर्वेषां कर्तव्यं यत् स्वजीवने विज्ञानस्य महत्त्वं सम्यगवगच्छेम।
(लेखकः स्वतंत्र–टिप्पणीकारः अस्ति।)
हिन्दुस्थान समाचार / अंशु गुप्ता