Enter your Email Address to subscribe to our newsletters

कोलकातानगरम्, २७ फरवरीमासः (हि.स.)। विधानसभा–निर्वाचनस्य सिद्ध्यर्थं पूर्वसज्जाकाले, पश्चिम–बङ्गाले भारतीय–जनता–पक्षस्य प्रस्तावितायां ‘परिवर्तन–यात्रायाम्’ अमितशाहस्य सहभागिता एकदिनस्य कृते स्थगिता। अधुना सः ०१ मार्चमासे न, किन्तु ०२ मार्चमासे दक्षिण–२४ परगना–जनपदे रायदीघि–स्थलात् यात्रा आरभ्स्यते।
पूर्वकार्यक्रमानुसारं, केंद्रीय–गृह–मन्त्री ०१ मार्चमासे रायदीघि–स्थले ‘परिवर्तन–यात्रायै’ हरित–ध्वजान दर्शयितुं आसीत्। तथापि, पक्ष–सूत्रेषु उक्तम् – ०१ मार्चमासे तं मुंबई–नगरे गुरु–तेग–बहादुर–महात्मन: श्रद्धांजलि–कार्यक्रमे सम्मिलिष्यति एतस्मात् रायदीघि–कार्यक्रमः एकदिवसस्य कृतै स्थगितः।
परिवर्तित–कार्यक्रमानुसारं अमितशाह: ०१ मार्चमासस्य रात्रौ प्राय: १० वादनात् मुंबईतः कोलकातां आगमिष्यति। ततः ०२ मार्चमासे प्रातः प्राय: ११:१५ वादनात् विशेष–हेलिकोप्टरविमानं प्रयुंज्य रायदीघि–देशं प्रस्थानं करिष्यति च मध्याह्ने प्राय: १२ वादनात् ‘परिवर्तन–यात्रा’–स्थलम् आगमिष्यति।
भाजपायाः राज्य–स्तरीय–नेतॄणां अनुसारं पश्चिम–बङ्गाले पक्षस्य १० सङ्घटन–प्रभागाः सन्ति, तेषु ९ ‘परिवर्तन–यात्रायाम्’ सम्मिलिताः भविष्यन्ति। राजधानी–कोलकातातः कस्यापि यात्रायाः आरम्भः न भविष्यति।
अमितशाहेन सह अन्ये वरिष्ठ–नेतारः भिन्न–भिन्न–चरणेषु एषु अभियानेषु भागं ग्रहीष्यन्ति। तेषु सन्ति – केंद्रीय–कृषि–कृषक–कल्याण–मन्त्री तथा मध्य–प्रदेश–पूर्व–मुख्यमन्त्री शिवराजसिंह-चौहान:, भाजपायाः राष्ट्रीय–अध्यक्ष: नितिननवीन:, केंद्रीय–मन्त्री जे.पी.नड्डा, रक्षा–मन्त्री राजनाथसिंह:, केंद्रीय–सड़क–परिवहन–राजमार्ग–मन्त्री नितिन: गडकरी, केंद्रीय–कौशल–विकास–उद्यमिता–मन्त्री धर्मेंद्रप्रधान:, पूर्व–केंद्रीय–मन्त्री स्मृति ईरानी, तथा महाराष्ट्र–मुख्यमन्त्री देवेंद्र: फडणवीस:।
हिन्दुस्थान समाचार / अंशु गुप्ता