Enter your Email Address to subscribe to our newsletters

गुवाहाटी, 27 फरवरीमासः (हि.स.)।
असम राज्यस्य मुख्यमंत्री हिमंत बिस्व सरमा अवदत् यत् आगामिनिर्वाचनस्य विषये भारतीय जनता पार्टी दलस्य समीपे स्पष्टं समाधानसूत्रम् अस्ति। यत्र यत्र असम गण परिषद इत्यनेन सह गठबन्धनं सम्भवति, तत्र तत्र दलं सहयोगिदलैः सह संयुक्तरूपेण निर्वाचनं लडिष्यति; यत्र च सम्मतिः न भविष्यति, तत्र मैत्रीपूर्णप्रतिस्पर्धा भविष्यति।
मुख्यमन्त्री उक्तवान् यत् भाजपा सहयोगिदलैः सह सकारात्मकसंवादं धारयति। येषु निर्वाचनक्षेत्रेषु परस्परसमझौता भविष्यति, तत्र संयुक्तरूपेण निर्वाचनं भविष्यति; येषु आसनेषु सम्मतिः न सिध्यति, तत्र अपि परस्परसौहार्दं रक्ष्य प्रतिस्पर्धा क्रियते।
तेन सूचितं यत् राभा संयुक्त मंच तथा बोडोलैंड पीपुल्स फ्रंट इत्येताभ्यां सह गठबन्धनं अन्तिमरूपेण निश्चितम्। तथा च असमगणपरिषदेन सह आसनविभाजनविषये १० मार्चपूर्वं सहमतिर्भविष्यतीति सम्भावना वर्तते।
मुख्यमन्त्री विश्वासं व्यक्तवान् यत् सर्वे सहयोगिदलाः मिलित्वा राज्ये राष्ट्रिय जनतांत्रिक गठबंधन इत्यस्य शक्तिं अधिकं सुदृढां करिष्यन्ति।
हिन्दुस्थान समाचार